________________
प्रथमोऽङ्कः
किं च, भगवन्प्रथमकवे !
यदुक्तिमुद्रासुहृदर्थवीथी कथारसो यचुलुकैश्चुलुम्प्यः । तथाऽमृतस्यन्दि च यद्वचांसि रामायणं तत्कवितॄन्पुनाति ॥१७॥ वाल्मीकिः - वत्स कृष्णद्वैपायन ! कस्य पुनः कवेर्वाचो भारतस्य षोडशीमपि कलां कलयन्ति ? यतः, -
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ! यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ १८ ॥
किं च,
दन्तोलूखलिभिः शिलोञ्छिभिरिदं कन्दाशनैः फेनपैः पर्णप्राशनिभिर्मिताम्बुकवलैः काले च पक्काशिभिः । नीवार प्रसृतिपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः
सेव्यं भव्य मनोभिरर्थपतिभिस्तद्वै महाभारतम् ॥ १९ ॥ किंतु, श्रुतमस्माभिर्यदुतातिविरसे काव्यकष्ठे ऽभिनिविष्टोऽसि । व्यासः - इदमुपाध्यायपादेभ्यो विज्ञाप्यते—
विनायको यः शिवयोरपत्यम पुमानर्धमिभश्च देवः । स वर्तते भारतसंहितायां वृतस्तपोभिर्मम लेखकोऽत्र ॥ २० ॥ तेन च च्छलयितुमहमुपक्रान्तः - यदुत बाढमहं ते लिपिकारः, किं पुनर्येन रंहसा लिखेयं तेन यदि [न] संहभसे तत्ते विघ्नः स्यात् । ततो मयापि प्रतिच्छलितः — ओमित्यस्तु । किं पुनर्भवता भावयता लिखितव्यमिति । अतः काव्यकष्टेऽभिनिविष्टोऽस्मि ।
-
वाल्मीकि :- कियान्वर्तते नवेतिहासः ?
व्यासः - संपन्नः । किं तूपाध्यायपादैः खयंवराय पाण्डवप्रवेशं यावदाकर्णित एव ।
१. अयं श्लोको महाभारते वर्तते.