________________
प्रथमोऽङ्कः
नकुलः – निखिलनरेन्द्रवृन्दाधिष्ठितान्मञ्चसंचयानपास्य मुनिप्रायविप्रजनपरिगृहीतं मञ्चमारोहामो वयमपि विप्रवेषधारिण एव । ( सर्वे समारुह्य यथोचितमुपविशन्ति । ) (नेपथ्ये । 1 ) दो कुमारधिजुणो भट्टिआरिआ अ । युधिष्ठिरः - प्राप्तैवैषा स्वयंवरयित्री ।
(ततः प्रविशति सधृष्टद्युम्ना द्रौपदी बन्दी सखी च । ) ( परिक्रामितकेन )
धृष्टद्युम्नः – (एकतोऽवलोक्य । ) कथं तातद्रुपदमनुग्रहीतुं महर्ष - योsपि स्वयंवरयात्रामश्चंमध्यासते, तदेतानभ्यर्द्दयामि । ( सप्रश्रयमञ्जलिं बद्धा । )
स्वस्त्यापस्तम्ब ! तुभ्यं त्वमसि ननु मुने ! कस्य नो माननीयवन्दे याज्ञवल्क्य ! द्विजसदसि कवे ! त्वां स्तुवे भारतस्य । विश्वामित्रः पवित्रं जगति विजयते काममत्रे ! नमस्ते
विश्वष्ठे वसिष्ठे कृतनतिरपरान्स्तौमि हर्षान्महर्षीन् ॥ २५ ॥ ( द्रौपदी प्रणमति । )
धृष्टद्युम्नः - ( अन्यतोऽवलोक्य । )
लक्ष्मी संवननैर्भुजैर्नृपतयः स्वस्त्यस्तु वः स्वागतं नवे गृहमेधिनां धुरि वयं यद्यूयमभ्यागताः । दृष्टः केन भवादृशां पुनरियान्पूज्यः समाजो जग
त्युत्कण्ठा भवतां च संप्रति पुरः सेयं स्थिता द्रौपदी ॥ २६ ॥ सखी - ईदो इदो भट्टिदारिआ । जम्याहिवाहिणो, वासमाधिसेढुं । युधिष्ठिरः - ( सस्पृहमवलोक्य स्वगतम्) हंहो लोचनचकोरौ ! युवामप्यातृप्तेः पिबन्तं द्रौपदीवदनेन्दुचन्द्रिकाम् ।
१. 'इत इतः कुमारधृष्टद्युम्नो भर्तृदारिका च' इति च्छाया. २. 'इत इतो भर्तृदारिका । शिबिकावा हिनः, वासमादिशन्तु ।' (?) इति च्छाया.
क० म० ९
•