________________
कर्पूरमञ्जरी
मज्झष्णे सिरिखंडपंककलणा आ संझमोल्लंसुअं लीलामजणमा पओससमअं साअं सुरा सीअला । गिम्हे पच्छिमजा मिणीणिहुवणं जं किं पि पंचेसुणो एदे पंच सिलीमुहा विजइणो सेसा सरा जजरा ॥ ३ विदूषकः - मा एवं भण, -
१०६
पंडुच्छ विच्छुरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोष्फलाणं । कप्पूरपं सुपरिवासिदचंदणाणं
भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥
यतः,
मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमाद्रांशुकं
लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो
रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥
ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा - पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यान न्या- . नुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः ।
विदूषकः
मैवं भण,
पाण्डुच्छ विच्छुरित नागलतादलानां सहकारतैलपरिपेशल पूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां
भद्रं निदाघदिवसानां वयस्य ! भवतु ॥
पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं भवत्वित्यर्थः ।
1 'फरिससीअला' इति पाठः ।