________________
कर्पूरमञ्जरी
मुक्कसंक ! हरिणंक ! किं तुवं सुंदरीपरिसरेण हिंडसे । 'गोरगंडपरिपंडुरत्तणं पेच्छ दिण्णमिमिणा मुहेण दे ॥ ३४ ॥ ( नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति । ) राजा - किं पुण एसो महाकोलाहलो ?
१०२
कर्पूरमञ्जरी —— (ससाध्वसम् ।) पिअसहि ! एदं अवगमिअ आगच्छ। ( कुरङ्गिका निष्क्राम्य प्रविशति । )
विदूषकः — देवीए पिअवअस्सस्स वंचणा किदेति तक्केमि । कुरडिका - पिअसहि ! एंदं जेव पिअवअस्सस्स वंचणा गदं
मुक्तशङ्क ! हरिणाङ्क ! किं त्वं सुन्दरीपरिसरेण हिण्डसे । गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥
अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म । तादृशसुन्दरी सविधे त्वं किं कुतो न परिभ्रमसि ? अत्यनुचितं करोपीति भावः । अत एव साभिप्रायं संबोधनमाह - मुक्तशङ्केति । एतादृशं वस्तु यतः प्राप्तं तत्र भक्तिर्नास्तीति किमुच्यते ! शङ्कापि लोकलज्जापि ते नास्तीति महदाश्चर्यमिति भावः । यद्वा, - यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तन्निकटाटनेन विशेषान्तरप्राप्तिरपि संभाव्यते । तदपि त्वं नाचरसीति महानज्ञस्त्वमिति भावः ।
राजा
किं पुनरेष महाकोलाहलः ?
कर्पूरमञ्जरी -
प्रियसखि । एतदवगम्यागच्छ ।
एतत् कलकल विषयवस्तु ।
विदूषकः -
देव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि ।
कुरङ्गिका
प्रियसखि ! भट्टारकस्य वञ्चनां कृत्वा त्वया सह संगमं ज्ञात्वागच्छति देवी । तेन कुब्जवामन किरातवर्षवरसौविदल्लानामेष कोलाहलः ।
1. "तुज्झ बिंब" इत्यपि पाठः । 2 'भट्टारअस्स वंचणं अदुअ तुए सह संगमं जाणिअ आअच्छदि' इति टीकापाठः ।