________________
तृतीयं जवनिकान्तरम्
९९
विदूषकः - भो, एसा कंचणचंडेण वण्णिदा चंदुज्जोअलच्छी । ता संपदं माणिकचंडस्सावसरो ।
(नेपथ्ये । )
द्वितीयो वैतालिक:उज्झतागुरुधूवर्वट्टिवलआ दिजंतदीबुजला लंबिजंतविचित्तमोत्तिअलदा मुच्चंतपारावआ । सजिजंतमणोज केलिसअणा जंपंतदूईसआ
सेज्जुच्छंगवलं तमाणिणिजणा वहंति लीलाहरा ॥ २७ ॥
'अकुङ्कुमं' इत्यनेन नवोद्गतायास्तस्याः पीतत्वं ध्वन्यते । 'अचन्दनं' इत्यनेन चन्दनाधिकशीतलता द्योत्यते । 'दश' शब्देन चैकवधूमात्रशोभाकरमण्डनान्तरवैलक्षण्यं द्योत्यते । 'अकङ्कणं' इत्यादिना भूषणान्तरवैचित्र्यमस्या अभिव्यज्यते । 'अशोषणं' इत्यादिनायुधवैलक्षण्यं चास्या द्योत्यते ।
विदूषकः—
भोः, [एषा] काञ्चनचण्डेन वर्णिता चन्द्रोद्दयोतलक्ष्मीः । तत्सांप्रतं माणिक्य
चण्डस्यावसरः ।
द्वितीयो वैतालिकः—
दह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्वला
लम्ब्य मानविचित्रमौक्तिकलता मुच्यमानपारावताः । सज्जीक्रियमाणमनोज्ञ केलिशयना जल्पहृतीशताः शय्योत्सङ्गवलन्मानिनीजना वर्तन्ते लीलागृहाः ॥
दह्यमाना अगुरुधूपवर्तय एव कलिका येषु । यद्वा - दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम्। तदा दह्यमानागुरुधूपाश्च ते वर्तिकलिकाभिर्दीयमान दीपोजालाचेत्यर्थः । अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोजवला इत्यर्थः । तदा शोभाधिक्यं व्यज्यते ।
1" वत्तिकलिआ' इति टीकानुसारी पाठः । 2 'सेज्जाहरा' इत्यपि पाठः ।