________________
कर्पूरमञ्जरी
(नेपथ्ये । )
वैतालिकः - सुहणिबंधणो भोदु देवस्स चंदुज्जोओ । भूगोले तिमिराणुबंध मलिणे भूमीहरे व्व ट्ठिदे संजादा वभुजपिंजरमुही जोण्हाइ पुव्वा दिसा । मुंचंतो मुचुकुंदकेसरसिहासोहाणुकारे करे चंदो एककलाकमेण अ गदो संपुण्णबिंबत्तणं ॥ २५ ॥
अवि अ, -
९८
अकुंकुममचंदणं दस दिसावहूमंडणं
अकंकणमकुंडलं भुवणमंडली भूसणं । असोसणममोहणं मअरलंछणस्साउहं मिअंककिरणावली णहअलम्मि पुंजिज्जदि ॥ २६ ॥
कार्ये कारणवदुपचाराद्देहजन्यरोमाञ्च निर्जिता इत्यर्थः । वैतालिकः
सुखनिबन्धनो भवतु देवस्य चन्द्रोद्द्योतः ।
भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरश्रीशोभानुकारान्करां
श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णबिम्बत्वम् ॥
तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमिरुह इव स्थिते । चन्द्रोदयानन्तरं यथा वृक्षमात्रमेव नीलमीक्ष्यते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । ' भूमीघरे' इति वा पाठः, तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च,
अकुङ्कुममचन्दनं दशदिशावधूमण्डनं
अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं मृगाङ्ककिरणावली नभस्तले पुञ्जीभवति ॥
1 'भूमीरुहे' इति टी/दृतकपाठः । 2" के सर सिरीसोहा णुआरे करे' इति टीकानुगुणः पाठः । 3 'देक्ख कला" इति टीकाभिमतः पाठः ।