________________
९२
कर्पूरमञ्जरी जाणे सिरीअ जइ किजदि को वि 'मेदो
माणिकभूसणणिअंसणकुंकुमहिं ॥ १५ ॥ अवि अ,किं लोअणेहिँ तरलेहि किमाणणेण
चंदोवमेण सिहिणेहि किमुण्णएहिं । ता किं पि अण्णमिह भूवलए णिमित्तं
जेणंगणाउ हिअआहि ण ओसरंति ॥ १६ ॥ विदूषकः-एवं णेदं । किं पुण अण्णं पि मे कधेसु, जं कुमारतणे माणुसस्स ग मणोजं तस्स वि तारुण्णएण किं पि चंगत्तणं चैडदि ।
जाने श्रिया यदि क्रियते कोऽपि भावो
माणिक्यभूषणनिवसनकुङ्कुमैः ॥ - अपि च,
किं लोचनैस्तरलैः किमाननेन
चन्द्रोपमेन स्तनैः किमुन्नतैः । तत्किमप्यन्यदिह भूवलये निमित्तं
येनाङ्गना हृदयानापसरन्ति ॥ यूनामिति शेषः। विदूषकः
एवमेतत् । किं पुनरन्यदपि मे कथय, यत्कुमारत्वे मानुषस्यामनोज्ञमेतस्मिन् तारुण्ये किमपि चङ्गत्वं वर्धते। __अमनोज्ञमङ्गादिकमिति शेषः । एतास्मिन्नमनोज्ञे। अपिभिन्नक्रमस्तारुण्य इत्यनन्तरं द्रष्टव्यः । यद्वा एतस्मिन्निति तारुण्य इत्यस्यैव विशेषणम् । एतस्मिन्नपि, एतादृशोत्कर्षवत्यपीत्यर्थः । तदा न भिन्नक्रमोऽपि ।
1 'भावो' इति टीकापाठः। 2 'थणएहिं' इति टीकानुसारी पाठः । 3 'अण्णं णिमित्तमिह किं पि तमत्थि मण्णे' इत्यपि पाठः। 4 'अमणोजमेतस्सि इति टीकादृतपाठः। 5 'वदि' इति टीकादृतः पाठः।