________________
राजा
तेण अ
तृतीयं जवनिकान्तरम्
राजा
पूर्ण दुवे इह पवाअइगो जअम्मि 'जे देहणिम्मवणजोव्वणदाणदक्खा । एको घडेइ पढमं कुमरीणमंगं कंडारिऊण पअडेइ पुणो दुईओ ॥ १७ ॥
समणिबलअकंचीणेउरा वेसलच्छी मरगअमणिमाला गोरिआ हारलट्ठी । हिअअहरणमंत जोव्वणं कामिणीणं जअइ मअणकंडं छट्टअं लट्ठअं च ॥ १८ ॥
नूनं द्वाविह प्रजापती जगति यो देहनिर्माणयौवनदानदक्षौ ।
९३
एको घटयति प्रथमं कुमारीणामङ्गमुत्कीर्य प्रकटयति पुनर्द्वितीयः ॥
अत्र 'उत्कीर्य प्रकटयति' इत्यनेन निर्माणकर्तृचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते । तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः ।
तेन च -
रणितवलयकाञ्चीनूपुरावासलक्ष्मीमरकतमणिमाला गौरिका हारयष्टिः । हृदयहरणमन्त्रं यौवनं कामिनीनां
जयति मदनकाण्डः षष्ठको बलिष्ठश्च ॥
जयतीति सर्वत्र काञ्चयादावन्वेति । न च कायादीनां बहुत्वान्मदन काण्डः षष्ठको ऽयमित्येतदतन्वयि स्यादिति वाच्यम्; सर्वसुमुदाये षष्ठमदन काण्डत्वविधाने दोषाभावात् । अथवा यौवन विशेषणम् । बलिष्ठ - जयतिपदाभ्यां चान्यकाण्डापेक्षयास्य व्यतिरेको ध्वन्यते । यतो बलिष्ठोऽत एव जयतीति हेतुहेतुमद्भावेनान्वयः । अन्योऽपि यो बलिष्ठः स जयतीत्येतदुचितमेवेति भावः ।
1 'उक्कारिऊण' इति टीकादृतः पाठः । 2 'रणिअवलअकंचीणेउरा वासलच्छी' इति टीका गुणः पाठः । 3 ' वड्ढअं' इति टीकापाठः ।