________________
कर्पूरमञ्जरी
विदूषकः - भो, देवीगंदे पण अप्परूढे वि पेम्मे किं णु कप्पूरमंजरं सव्वंग वित्थारिअलोअणो पिअंतो विअ पलोएसि ? किं तत्तो परिही अमाणगुणा देवी ?
राजा - मा एवं भण, -
की व संघदि कस्स वि पेम्मगंठी एमेअ इत्थ ण हु कारणमत्थि रूअं । चंगत्तणं पुणु महिज्जदि जं तहिं पि तं दिजए पिसुणलोअमुहेसु मुद्दा ॥ ९ ॥ विदूषकः - भो वअस्स ! किं पुण एदं पेम्मं पेम्मं ति भणति ?
८८
विदूषकः -
भोः, देवीगते प्रणयप्ररूढेऽपि प्रेम्णि किमिति कर्पूरमञ्जरीं सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि ? किं ततोऽपि परिहीणप्रमाणगुणा देवी ? परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा ।
राजा
मैवं भण,
काचित्संघटते कस्यापि प्रेमग्रन्थि
रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्मृग्यते यत्तत्रापि
तदीयते पिशुनलोक मुखेषु मुद्रा ॥
1
प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं, किं तु तत्स्वभावादेव भवति । तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकाङ्क्षायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकः
भोः ( वयस्य 1 ) किं पुनरेतत् [ प्रेम ] प्रेमेति भणन्ति ?
1 ‘अवलोएसि । किं तदो विपरिहीअप्पमाणगुणा' इति टीकानुसारी पाठः ।