________________
८० ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० ७१-७३ ] यत्तत्प्रथमान्तं तच्चेदस्तीति भवति देशे नाम्नि प्रत्ययान्तं चेत् देशस्य नाम भवति । अत्रापीतिकरणो विवक्षार्थोऽनुवर्तत एव । तेन प्रसिद्ध नाम्नि भूमादी चार्थे भवति, अत एव चोभय प्राप्तौ परोऽपि मत्वर्थीयोऽनेन बाध्यते । उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरं नगरम्, औदुम्बरो जनपदः, औदुम्बर: पर्वतः ७०।
तेन निवृत्ते च ॥ ६. २. ७१॥ .. तेनेति तृतीयान्तान्निर्वृत्तमित्येतस्मिन्नर्थे ययाविहितं प्रत्ययो भवति देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम भवति. यदा अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि निर्वृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्तरि करणे वा तृतीया। यदा त्वकर्मक विवक्षया कर्तरि निर्वृत्तशब्दस्तदा हेतौ तृतीया । कुशाम्बेन निर्वृत्ता कौशाम्बी, ककन्देन काकन्दी, मकन्देन माकन्दी, संगरैः सागरः, सहस्रेण निर्वृत्ता साहस्री परिखा, चकारश्चतुर्णा योगानामुत्तरत्रानुवृत्त्यर्थः । तेनोत्तरे प्रत्यया यथायोगं चतुर्वर्थेषु भवन्ति ।७१॥ नद्यां मतुः ॥६. २. ७२ ॥
तस्य निवासः तस्यादूरभवः तदत्रास्ति तेन निवृत्तं चेत्येष्वर्थेषु यथायोगं मतुः प्रत्ययो भवति नद्यां देशे नाम्नि प्रत्ययान्तं चेन्नदीविषयं देशस्य नाम भवति । नदीनामेत्यर्थः, अणोऽपवादः । उदुम्बरा अस्यां सन्ति उदुम्बरावती नदी, पशकावती, वीरणावती, पुष्करावती, इक्षुमती, मती, शरावती, इरावती। भगीरथेन निर्वृत्ता भागीरथी । भैमरथी, जाह्नवी, सौवास्तवी । अमत्वन्तान्येव भागीरथ्यादीनि नदीनामानीति मतुर्न भवति ।७२।
मध्यादेः ॥ ६. २. ७३ ॥ ___मध्वादिभ्यो मतुः प्रत्ययो भवति चातुरथिकः देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम भवति, अणोऽपवादः। अनद्यर्थश्चारम्भः । मधुमान् बिसवान स्थाणुमान् । मधु, बिस, स्थाणु, ऋषि, इक्षु, वेणु, कर्कन्धु कर्कन्ध, शमी, करीर, हिम, किसर, सार्पण, रुवत्, पार्दा, कीशरु, इष्टका, पाकी, शरु, शुक्ति, आसुति, सुत्या, आसन्दी, शकली, वेट, पीडा, अक्षशिल, अक्षशिला, तक्षशिला, आमिषी इति मध्वादिः ।७३।
न्या० स० मध्वादेः चातुरर्थिक इति चतुर्वर्थेषु भवः अध्यात्मादित्वादिकण, विधानतो 'द्विगोः' ७-१-१४४ इति न लुप् , अथ गणो विव्रियते 'मनिजनिभ्यां' ७२१ (उणादि)