________________
[पाद. २ सू. ७४-७७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [८१ इति मधुः, पटिवीभ्यामिति बिसं बिसच् खण्डने वा, 'अजिस्था' ७६८ ( उणादि) इति स्थाणुः, 'नाम्युपान्त्य' ५-१-५४ इति ऋषिः, 'मस्जि' ८२६ ( उणादि) इति इक्षुः, 'अजिस्था' ७६८ ( उणादि) इति वेणुः, कर्कस्य अन्धुरिव कर्कन्धुः, 'कृगः कादिः' ८४९ ( उणादि) कर्कन्धः, शमयति शमो, 'कृशृ' ६१९ करीरः, 'क्षुहिभ्यां' ३४१ ( उणादि)
__ हिमः, कस्य भार्या की सरति 'यापो बहुलम् ' २-४-९९ इति किसरा, सहार्पणेन वर्तते सार्पणः, रौति शतरि रुवत् , पर्दते बाहुलकाद्दीचे पार्दा, कुत्सितः शरूः कोशरुः, पृषोदरादिः । 'इध्यशि' इति इष्टका, पार्दामकति पार्दाकी, 'भृमृ' इति शरु:,
__ 'दमुषि' ६५१ ( उणादि) इति शुक्तिः, 'समिणा' ५-३-९३ इति आसूयते आसुतिः, 'समज' ५-३-९९ इति सुत्या, आसिक् 'कुमुद' ६-२-९६ इति आसन्दी, आसं दयते वा योगविभागान्मोऽन्तः, विट शब्दे, लिहाद्यचि वेट:, 'भीष' इति पीडा । नडकुमुदवेतसमहिषाडित् ॥ ६. २. ७४ ॥
नडादिभ्यो डिन् मतुः प्रत्ययो भवति चातुर्थिकः देशे नाम्नि । अणाद्यपवादः । नड्वान् कुमुद्वान् वेतस्वान् महिष्मान् देशः, तत्र भवा माहिष्मती नगरी, डित्त्वमन्त्यस्वरादिलोपार्थम् ।७४।। ___न्या० स० नडकुमुद०-अणाद्यपवाद इति आदिपदात् नडशब्दात् 'नडशादाद्वलः' ६-२-७५ कुमुदात् 'कुमुदादेरिकः' ६-२-९६ इत्यादिग्रहः, महिष्मानित्यत्र 'धुटस्तृतीय' २-१-७६ इति डत्वं न भवति, असिद्धं बहिरङ्ग-मन्तरङ्गम् इति अकास्य स्थानित्वेन पदान्तत्वाभावात्, न वाच्यं 'स्वरस्य' ७-४-११० इति स्थानित्वं 'न सन्धि' १-३-५२ इत्यस्यावस्थानात् । नडशादावलः ॥ ६. २. ७५ ।।
नड शाद इत्येताभ्यां डित् वलः प्रत्ययो भवति चातुथिको देशे नाम्नि, मत्वणाद्यपवादः । नड्वलम्, शाद्वलम् ।७५॥
न्या० स० नडशादा०-मत्वणायेति आदिपदात् ‘नडादेः कीयः' ६-२-९२ इति । शिखायाः ॥ ६. २. ७६ ॥
शिखाशब्दावलः प्रत्ययो भवति चातुरथिकः देशे नाम्नि, अणोऽपवादः । पृथग्योगाडिदिति निर्वृत्तम्, शिखावलं नाम नगरम्, मतुप्रकरणे शिखाया वलचं वक्ष्यति तत् अदेशार्थं वचनम् ।७६।
न्या० स० शिखाया:-- वक्ष्यतीति 'कृष्यादिभ्यो वलच् ' ७-२-२७ अदेशार्थमिति न वाच्यं सामान्येनोत्तरेण देशेप्यदेशेऽपि भविष्यतीति यतोऽत्राणोपवाद इत्युक्तं, ततश्चादेशे तस्य चरितार्थत्वात् देशे 'निवासादूरभवे' ६-२-६९ इत्यादयः स्युः । शिरीषादिककणौ ॥ ६. २. ७७ ॥
शिरीषशब्दादिककण इत्येतौ प्रत्ययौ भवतः चातुरथिको देशे नाम्नि । शिरीषाणामदूरभवो ग्रामः शिरीषिकः, शैरीषकः ।७७॥