________________
७८ ]
बृहद्वृत्ति - लघुन्यास संत्र लिते
[ पाद. २ सू. ६६-६८ ] वाङ्गमित्यादि । उत्तरत्र निवास इत्यभिधानात् ईशितव्ये राष्ट्रेऽयं विधिः, उभयथा हि राष्ट्रसंबन्धो भवति । ६५ ।
7
न्या० स० राष्ट्रे - शैबमिति शिबे राज्ञोऽपत्यानि 'दुनादि ६-१-११८ इतिञ्यः, 'बहुष्वस्त्रियां' ६- १ - १२४ इति लुप् ततो राष्ट्रे वाच्येऽनेनाणू, एतद् विषये ' न प्रागूजितीये ' ६-१-१३५ इति व्यस्य स्थानित्वं न कुतः एक न प्राजितीय इत्यत्र वृत्तौ गोत्र इति पदं द्विधा व्याख्याय गोत्रे उत्पन्नस्य ' यस्कादेर्गोत्रे ' ६-१-१२५ इत्यारम्य यः प्रत्ययलोपः प्राप्नोति तस्य ' न प्राजितीये ६-१-१३५ इत्यनेन लुपं प्रतिषेधन्ति, व्यो हि 'यस्कादे गोत्रे ६-१-१२५ इत्यत्र प्राग्विहित एवेति स्थानित्वं न, यदा तु शिबीनां राजान इति क्रियते तदागोत्रत्वात्, 'न प्रागूजितीये ६-१-१३५ इत्यस्य प्राप्तिरेव नास्ति, एवमुत्तरेष्वपि ।
उत्तरत्रेति 'निवासादूरभवे ' ६-२-६९ इत्यत्र । ईशितव्ये इति यथेच्छं विनियोज्ये । उभयथा हीति परिपालनेन निवासेन च ।
राजन्यादिभ्योऽञ् ॥ ६.२. ६६ ॥
राजन्य इत्येवमादिभ्यो राष्ट्रे वाच्येऽकञ् प्रत्ययो भवति, अणोऽपवादः । राजन्यानां राष्ट्रं राजन्यकम्, दैवयातवकम् राजन्य, दैवयातव, देवयात आवृत, आव्रीतक, वात्रव, शालङ्कायन, बाभ्रव्य, जालन्धरायण, जानंधरायण, कौन्ताल, आत्मकामेय, अम्बरीपुत्र, आम्बरीपुत्र, अम्बरीषपुत्र, बैल्ववन, शैलूषज, उदुम्बर, औदुम्बर, तैतल, संप्रिय, दाक्षि, ऊर्णनाभ, ऊर्णनाभि, अर्जुनायन, विराट, मालव, त्रिगर्त इति राजन्यादिः । बहुवचनमाकृतिगणार्थम् ।६६।
वसा ॥ ६. २. ६७ ॥
वसातिशब्दाद्राष्ट्रे वाच्येऽकञ् प्रत्ययो वा भवति । वसातीनां राष्ट्र वासातकं, वासातम् । ६७।
भौरियैकार्यादेर्विधभक्तम् ॥ ६.२.६८ ॥
भौरिकि इत्येवमादिभ्य ऐषुकारि इत्येवमादिभ्यश्च राष्ट्रे वाच्ये यथासंख्यं विध भक्त इत्येतौ प्रत्ययौ भवतः, अणोऽपवादः । भौरिकीणां राष्ट्र भौरिकिविधम्, भौलि कि विधम्, स्वभावान्नपुं सकता । ऐषुकारीणां राष्ट्रमैषुकारिभक्तम्, सारसायनभक्तम् । भौरिकि, भौलिक, चौपयत, चौदयत, चंटयत, चैकयत, संकयत, क्षैतयत, काणेय, वालिकाद्य, वाणिजक इति भौरिक्यादिः । ऐषुकारि, सारसायन, चान्द्रायण, तार्क्ष्यायण, व्याक्षायण, त्र्याक्षायण, व्यक्षायण, त्र्यक्षायण, औलायन, सौवीर, दासमित्रि, दासमित्रायण, शौद्रकायण, शयण्ड,