________________
[ पाद. २. सू. ६२-६५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [७७ किम् ? द्रौवयं खण्डम, गौमयं भस्म, कापित्थो रसः। कथं कपोतस्य मांस कापोतम् तस्य विकारः कापोतो रसः पलाशस्यावयवः पालाशी शाखा तस्या अवयवः पालाशी समित् इति ? विकारेऽपि प्रकृतिशब्दो वर्तते, यथा मुद्गः शालीन् भुङ्क्ते । मुद्रविकारैः शालिविकारानिति गम्यते, गोभिः सन्नद्धो वहति । गोविकारैश्चर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्तते । पूर्वे पञ्चालाः उत्तरे पश्चालाः ग्रामो दग्धः पटो दग्ध इति । तत्र विकारवृत्तः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच्च प्रत्ययो भविष्यति । विकारविकारोऽपि वा विकार एव अवयवावयवोऽप्यवयव इति ॥६॥
न्या० स० न द्वि०-अवयवेऽपीति कापोतं प्रति उत्तरं दत्त्वा पालाशी प्रत्याह विकार एवेप्ति प्रकृतेरपीत्यर्थः । पितृमातुर्व्यडुलं भ्रातरि ॥ ६. २. ६२ ॥
पितृमातृशब्दाभ्यां षष्ठयन्ताभ्यां भ्रातरि वाच्ये यथासंख्यं व्यडुल इत्येतो प्रत्ययौ भवतः । पितुर्धाता पितृव्यः मातुर्धाता मातुलः, डकारोऽन्त्यस्वरादिलोपार्थः ।६२।
न्या० स० पितृ-विकल्पादेकशेषः सूत्रत्वाद्वा ‘आ द्वंद्वे' ३-२-३९ इति च न । पित्रोर्डामहट् ॥ ६. २. ६३॥
पितृमातृशब्दाभ्यां षष्ठयन्ताभ्यां मातापित्रोर्वाच्ययोर्डामहट् प्रत्ययो भवति । पितुः पिता पितामहः, पितुर्माता पितामही, मातुः पिता मातामहः, मातुर्माता मातामही । द्विवचनटित्त्वाभ्यां मातापित्रोरिति विज्ञायते । डकारोऽन्त्यस्वरादिलोपार्थः, टकारो ड्यर्थः ।६३।
अवेर्दुग्धे सोढदूसमरीसम् ॥ ६. २. ६४ ॥ ___ अविशब्दात् षष्ठचन्तात् दुग्धेऽर्थे सोढ दूस मरीस इत्येते प्रत्यया भवन्ति । अवेर्दुग्धम् अविसोढम्, अविदूसम्, अविमरीसम् ।६४।। राष्ट्रेऽनङ्गादिभ्यः ॥ ६. २. ६५॥
राष्ट्र जनपदः, षष्ठयन्तादङ्गादिवजितान्नाम्नो राष्ट्रेऽभिधेये यथाविहितमण् प्रत्ययो भवति । शिबीनां राष्ट्र शैबम् । उषुष्टानामौषुष्टम् । गान्धारीणां गान्धारम् । अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्रं वङ्गानां राष्ट्रमिति वाक्यमेव भवति । अङ्ग वङ्ग सुह्म पुण्ड इति । अङ्गादयः प्रयोगगम्याः। केचित्तु अगादिप्रतिषेधं नेच्छन्ति । अङ्गानां राष्ट्रमाङ्गम् ।