________________
बृहवृत्ति-लघुन्याससंवलिते [पाद. २. सू. ५८-६१ ] ____पाटल्या इति मतान्तरेण 'नवा शोणादेः' २-४-३१ इति जीविकल्पात् , एके तु गौरादौ अन्ये तु अजादौ, पाटल्या 'हेमादिभ्योऽञ्' ६-२-४५, पाटलायास्तु मयट् । '
क्लीबेऽपीति न केवलं पुष्पे वर्तमानः स्त्रीलिङ्गः। फले ॥ ६. २.५८ ॥
विकारेऽवयवे वा फले विवक्षिते प्रत्ययस्य लुप भवति । आमल क्या विकारोऽवयवो वा फलमामलक.म्, बदर्या बदरम्, कुवल्याः कुवलम्, भल्लातक्याः भल्लातकम्, व्रीहिः, यवः, मुदः, माषः, गोधूमः, निष्पावः, तिलः, कुलत्थः, हरीतकी, पिप्पली, कोशातकी, श्वेतपाकी, अर्जुनपाकी, कर्कटी, नखरजनी, शष्कण्डी, दण्डी, दोडी, दाडी, पथ्या, अम्लिका, चिञ्चा, द्राक्षा, ध्रुक्षा, ध्वाङ्क्षा, मृद्वीका, कणा, वला, एला, शाला, काला, गर्गरिका, कण्टकारिका, शेफालिका, ओषधिः, करिः । हरीतक्यादिभ्यो लुपि प्रकृतिलिङ्गमेव । तत्र पूर्वस्य स्त्रीप्रत्ययस्य लुपि पुनः स एव स्त्रीप्रत्ययः । यद्यप्यामलकादीनि प्रकृत्यन्तराणि सन्ति तथाप्यामलक्यादिभ्यः प्रत्ययश्रुतिनिवृत्त्यर्थं लुब्वचनम् ।५८।
न्या० स० फले-बदरकुवलशब्दौ हेमादौ द्रष्टव्यौ अभक्ष्याच्छादनमयबाधनार्थम् । प्लक्षादेरण ॥ ६. २. ५९ ॥
__प्लक्ष इत्येवमादिभ्यो विकारेऽवयवे वा फले विवक्षितेऽण् प्रत्ययो भवति, मयटोऽपवादः । विधानसामर्थ्याच्चास्य लुब् न भवति । प्लक्षस्य विकारोऽवयवो वा फलं प्लाक्षम् । एवं नैयग्रोधम् । प्लक्ष, न्यग्रोध, अश्वत्थ, इङ्गदी, वेणु, वृहतो, सगु, रु(स) कु, कक्रतु इति प्लक्षादिः ।५९।
जम्ब्वा वा ॥ ६. २. ६० ॥
. जम्बूशब्दाद्विकारेऽवयवे वा फले विवक्षिते वाण प्रत्ययो भवति पक्षे यथाप्राप्तं प्रत्ययस्तस्य च लुप् । जम्ब्वा विकारोऽवयवो वा फलं जाम्बवम, पक्षे जम्बु जम्बूः । लुपि स्त्रीनपुसकते ।६०। न द्विरद्रुवयगोमयफलात् ॥ ६. २. ६१ ॥
वयं गोमयं फलवाचि च वर्जयित्वाऽन्यस्मान्नाम्मो विकारावयवयोद्विः प्रत्ययो न भवति । कपोतस्य विकारोऽवयवो वा कापोतः कापोतस्य विकारोऽवयवो वेति 'दोरप्राणिन:' (६-२-४९) इति मयट न भवति, एवं वैल्वः, ऐणेयः, शामीलः, औष्ट्रकः, कांस्यः, पारशवः। अद्वयगोमयफलादिति