________________
| पाद. २. सू. ५५-५७ ]
श्रोसिद्ध हेमचन्द्रशब्दानुशासने पष्ठोध्यायः
ह्योगोहादीनञ् हियश्चास्य ॥ ६.२.५५ ॥
ह्योगोदोहशब्दाद्विकारे नाम्नि ईनञ् प्रत्ययो भवति तत्संनियोगे च प्रकृतेहियङ्गु इत्यादेश: । ह्योगोदोहस्य विकार: हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव ? ह्योगोदोहस्य विकार इदमुदश्वित् ह्योगो दोहमित्यणेव
[ ७५
भवति ॥५५॥
न्या० स० ह्योगो० - हैयङगवीनमिति न ह्योगोदोविकार मात्रं किंतु किंचिदेवेत्याह-नवनीतेति तेनाभ्यामन्यत्र न भवतीति प्रत्युदाहरति ।
अपो यञ् वा ॥ ६. २. ५६ ।।
अपशब्दाद्विकारे यञ् प्रत्ययो वा भवति, एम्स्वरमयटोऽपवादः । अपां विकारः आप्यम्, अम्मयम् ॥५६ । लुब्बहुलं पुष्पमूले ॥ ६ २. ५७ ॥
विकारावयवयोर्विहितस्य प्रत्ययस्य पुष्पे मूले वा विकारतयावयवतया वा विवक्षिते बहुलं लूप् भवति । मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका, यूथिका, नवमालिका, मालती । एषु अणो मयटो वा लुि ङयादेगौणस्याक्किपस्तद्धितलुक्य गोणीसूच्योः ' (२-४-९४) इति स्त्रीप्रत्ययनिवृतौ लुबन्तस्य स्त्रीत्वापुनः स्त्रीप्रत्ययः । जातेर्जाति: । पाटल्याः पाटलाया वा पाटलं पाटला वा । यदाहुः - पुष्पे क्लीबेऽपि पाटला, पाटलीत्यपि । कुन्दम्, सिन्दुवारम्, कदम्बम्, करवीरम्, अशोकम्, चम्पकम्, कर्णिकारम्, कोविदारम् । विदार्या मूलं विदारी, अंशुमती, बृहती, हरिद्रा, माधवी, मुस्ता कचिन्न भवति । वरणस्य पुष्पाणि वारणानि, एरण्डस्य मूलानि ऐरण्डानि, बिल्वस्य बैल्वानि । क्वचिद्विकल्पः, शिरीषस्य पुष्पाणि शिरीषाणि, शैरीषाणि । हीबेरस्य मूलानि ह्रीबेराणि, हैबेराणि । कचित्पुष्पमूलाभ्यामन्यत्रापि भवति । आमलकस्य विकारो वृक्षः आमलकी, बदरो, व्रीहेविकारः स्तम्बः व्रीहिः ॥५७॥ न्या० स० लुब्बहुलं-मल्ल्यते मूर्द्धि 'पदिपठि' ६०७ ( उणादि ) इति के च ' दृकृनृ ' २७ ( उणादि ) इत्यऽके वा ।
(
मल्लिका, यू पथयुथ' २३१ ( उणादि ) इति थे यूथी के यूथिका । यूथो जालक मस्त्यस्यां वा । नवा मालाsस्यां नवमालिका । मां लाति पृषिरञ्जि २०८ ( उणादि ) इति दिते गौरादित्वाद् ड्यां मालयत्यामोदैर्वा 'पुतपित्त ' २०४ ( उणादि ) इति मालती ।
(
अणो मटो वेति मालत्या दुमयटोऽन्येभ्यस्तु 'प्राण्यौषधि ' ६-२-३१ इत्यणोऽभक्ष्याच्छादनविवक्षायां तु मयटो लुप्, पुनगौरादित्वाद् ङीः ।