________________
७४ ]
बृहद्वृत्ति-लघुन्या संवलिते [ पा० २. सू० ४९-५४ ] दोस्पाणिनः ॥ ६. २. ४९॥
दुसंज्ञकादप्राणिवाचिनो यथायोगं भक्ष्याच्छादनवजिते विकारेऽवयवे च मयट् प्रत्ययो भवति, अणोऽपवादः। आम्रमयम्, शालमयम्, शाकमयम्, काशमयम्, तन्मयम्, यन्मयम् । अप्राणिन इति किम् । श्वाविधो विकारोऽवयवो वा शौवाविधम् श्वाविन्मयम् । चाषं चाषमयम् । वा (भा) सं वा (भा) समयम् ।४९। गोः पुरीषे ॥ ६. २. ५० ॥
गोशब्दात्पुरीषेऽर्थे मयट् प्रत्ययो भवति । गोः पुरीष गोमयम् । पुरीष इति किम् ? गव्यं पयः, गव्यं सक्थि । 'गोः स्वरे यः' [६-१-२७) इति यः। यद्यपि पुरीषं विकारत्वेन न प्रसिद्धं तथापि दोषधातुमल मूलं शरीरमिति विवक्षायां तात्स्थ्यात्तद्वदुपचार इति गोः पुरीषं पयश्च विकारो भवति । 'एकस्वरात्' [६-२-४८] इत्येव सिद्धे पुरीषे नियमार्थं वचनम् ॥५०॥ .
न्या० स० गोः पु०-विकारत्वेनेति गोविकारत्वेन न प्रसिद्ध किंतु आहारादिविकार इति । वीहेः पुरोडाशे ॥ ६. २. ५१ ॥ ___ बोहिशब्दात्पुरोडाशे विकारे नित्यं मयट् प्रत्ययो भवति, अणोऽपवादः । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् । वैह ओदनः वह भस्म ५१॥ तिलयवादनानि ॥ ६. २. ५२ ॥
तिलयव इत्येताभ्यां विकारेऽवयवे च मयट् प्रत्ययो भवति अनाम्नि, अणोऽपवादः। तिलमयम्, यवमयम् । अनाम्नीति किम् । तैलम, यवानां विकारो यावः स एव यावकः ।५२। पिष्टात् ॥ ६. २. ५३ ॥ .
पिष्टशब्दाद्विकारे मयट् प्रत्ययो भवति अनाम्नि, अणोऽपवादः । पिष्टमयम् ।५३।, नाम्नि कः ॥ ६. २. ५४ ॥
पिष्टशब्दान्नाम्मि विकारे कः प्रत्ययो भवति । पिष्टस्य विकारः पिष्टिका ।५४।