________________
[पाद. २. सू. ४६-४८] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [७३ ___न्या० स० हेमा०-ननु रजतादीनामभि अणि वा नास्ति विशेषः ततस्तेषामौत्सर्गिकोऽणेव भविष्यति किमत्र पाठेन ? सत्यं, अभक्ष्याच्छादनविवक्षायां 'अभक्ष्याच्छादने' ६-२-४६ इति वा मयट् स्यात्तद्विकल्पेऽण् स्यात्, गणपाठे तु गणपाठसामर्थ्यादव भवति न मयद, अत एवाह
नित्यमप्रत्ययो भवतीति-आकृतिगणार्थमिति वाचिकवार्तिकेन हेमादौ काञ्चनमिति निरटङ्किः तेन काञ्चनी वासयष्टिरिति सिद्धं, अन्यथाऽणपवादो ‘दोस्पाणिनः' ६-२-४९ इति मयटू स्यात् । - अभक्ष्याच्छादने वा मयट् ॥ ६. २. ४६ ॥
षष्ठयन्ताद्भक्ष्याच्छादनवजिते यथायोगं विकारेऽवयवे च मयट प्रत्ययो वा भवति । भस्मनो विकारः भस्ममयं भास्मनम्, अश्मनो विकारः अश्ममयम् आश्मम्, कपोतस्य विकारोऽवयवो वा कपोतमयम् ‘कापोतम्, दूर्वाया विकारोऽवयवो वा दूर्वामयम् दौर्वम्, मूर्वामयम् मौर्वम् करीरमयं कारीरम्, शिरीषमयम् शैरीषम् अभक्ष्याच्छादन इति किम् ? मौद्गः सूपः, कासः पटः । भक्ष्याच्छादनयोर्मयडभावपक्षे च 'तालाद्धनुषि' [६-२-३२] इत्यादिको विधिः सावकाशः, अयं च भस्ममयमित्यादौ। तत्रोभयप्राप्तौ परत्वादनेन मयट् भवति । तालमयं धनुः, त्रपुमयम्, जतुमयम्, शमीमयम्, पयोमयम्, द्रुमयम्, उष्ट्रमयम्, उमामयम् ऊर्णामयम्, एणीमयम्, कोशमयम्, परशव्यमयम्, कंसीयमयम्, शतमयम् । एके तु तालाबनुषि द्रोः प्राणिवाचिभ्यश्च मयटं नेच्छन्ति ।४६। शरदर्भकूदीतृणसोमबल्वजात् ॥ ६. २. ४७॥
शरादिभ्यो यथायोगं भक्ष्याच्छादनजिते विकारेऽवयवे च नित्यं मयट् प्रत्ययो भवति, अणोऽपवादः । शरमयम्, दर्भमयम्, कूदीमयम्, तृणमयम्, सोममयम्, बल्वजमयम् ।४७। . न्या० स० शर०-ननूत्तरेण सह एकयोगः कथं न क्रियते ? उच्यते, एकयोगे शरदर्भादीनामदुसंज्ञकानां सहचर्यादेकस्वराणामपि अदुसंज्ञकानां स्यात्ततो वाङ्मयमित्यादि न स्यात् । एकस्वरात् ॥.६.२.४८॥
एकस्वरान्नाम्नो यथासंभवं भक्ष्याच्छादनवजिते विकारेऽवयवे च नित्यं मयट प्रत्ययो भवति । वाङ्मयम्, त्वङ्मयम्, मृन्मयम्, स्रुङ्मयम्, गीर्मयम्, धूर्मयम् ॥४८॥