________________
७२ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू. ४२-४५ ] हेमार्थान्माने ॥ ६. २. ४२ ॥
हेमवाचिनः शब्दान्माने विकारे वाच्ये यथाविहितमण् प्रत्ययो भवति, दुमयटोऽपवादः । हाटकस्य विकारः हाटको निष्कः, हाटकं कार्षापणम्, जातरूपो निष्कः, जातरूप कार्षापणम् । हैमो निष्कः हैमं कार्षापणमित्यत्र परत्वाद्ध मादिलक्षणोऽत्रेव । अर्थग्रहणं स्वरूपविधिव्युदासार्थम् । मान इति किम् ? हाटकमयी यष्टि: ।४२॥ द्रोर्वयः ॥ ६. २. ४३ ॥
द्रुशब्दान्माने विकारे वयः प्रत्ययो भवति, यस्यापवाद: । द्रोविकारो द्रुवयं मानम् ।४३॥
न्या० स० द्रोर्वयः यस्यापवाद इति 'फ्योद्रोर्यः' ६-२-३५ इति प्राप्तस्य, मानादन्यत्र सोऽपि चरितार्थ इति । मानाक्रीतवत् ।। ६. २. ४४ ॥
मीयते परिच्छिद्यते येन तन्मानम् इयत्तापरिच्छित्तिहेतुः संख्यादिरुच्यते । मानवाचिनः शब्दाद्विकारे क्रीतवत्प्रत्ययविधिर्भवति । शतेन क्रीतं शत्यं शतिकम्, शतस्य विकारः शत्यः शतिकः, एवं साहस्रः नैष्किकः। वत्सर्वविधिसादृश्यार्थः, तेन लुबादिकस्याप्यतिदेशो भवति । द्विशतः, त्रिशतः, द्विसहस्रः, द्विसाहस्रः, द्विनिष्कः, द्विनैष्किकः ।४४।
न्या० स० माना-द्विशत इति द्वाभ्यां शताभ्यां क्रीतः ‘शताद्यः' ६-४-१४५ इति विकल्पेन यः प्राप्तः परं तस्य विधानसामर्थ्याल्लुप् न स्यादिति, 'संख्याडतेः। ६-४-१३० (इति) कः, 'अनाम्न्यद्विः प्लुप्' ६-४-१४१ एवं त्रिशतः द्विसहस्र इति। क्रीते 'सहस्रशत' ६-४-१३६ इत्यण ‘नवाणः' ६-४-१४२ इति विकल्पेन लुप्, लुबभावे 'मानसंवत्सर' ७-४-१९ इत्युक्तरपदवृद्धिः । द्विनिष्क इति 'द्वित्रिबहोः' ६-४-१४४ इति वा इकणो लुप् । हेमादिभ्योऽञ् ॥ ६. २. ४५ ॥
हेमन् इत्येवमादिभ्यो यथायोमं विकारेऽवयवे चार्थे नित्यमञ् प्रत्ययो भवति । हेनो विकारो हैमं शरासनम्, हैमो यष्टिः, रजतस्य राजतः, हेमन्, रजत, उदुम्बर, नीवुदार, रोहीतक, बिभीतक, कण्डकार, गवीधुका, पाटली, श्यामाक, बाहिण इति हेमादयः । बहुवचनम् आकृतिगणार्थम् । हेम्नोऽण्बाधनार्थमञ्वचनम् । अणि हि सति ‘अणि' (७-४-५२) इत्यन्त्यस्वरादेलुग् न स्यात्, पाटलीश्यामाकबाहिणानां दुलक्षणस्य शेषाणां तु वैकल्पिकस्य मयटो बाधनार्थम् ।४५।