________________
[पाद. २. सू. ३८-४१ ] श्रीसिद्धहेमचन्द्रशब्दानुशसने षष्ठोध्यायः [७१ भवति । उमा अतसी तस्या विकारोऽवयवो वा औमकम्, औमम्, ऊर्णाया विकारः और्णकम्, और्णः कम्बलः ।३७१ ____ न्या० स० उमो०-ऊर्णाया विकार इत्ति 'ऊर्वतीति णे' राल्लुक ४-१-११० इत्ति बलोपे, 'भ्वादेः' २-१-६३ इति बाहुलकाद्दीर्घः अन्यथा मोर्मेतिवत् गुणः स्यात् । एण्या एयञ् ॥ ६. २. ३८॥
एणोशब्दाद्विकारेऽवयवे च एयञ् प्रत्ययो भवति, अणोऽपवादः । एण्या विकारोऽवयवो वा ऐणेयं मासम्, ऐणे यी जङ्घा, स्त्रीलिङ्गनिर्देशात्पुलिङ्गादणेव । ऐणं मांसम, ऐणी जङ्घा ।३८। कौशेयम् ॥ ६. २. ३९ ॥
कोशशब्दाद्विकारे एयञ् प्रत्ययो निपात्यते । कोशस्य विकारः कौशेयम वस्त्रं सूत्रं वा। निपातनं रूढचर्थम्, तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न भवति ।३९। परशव्याद्यलुक् च ॥ ६. २. ४० ॥
परशवे इदं परशव्यम्, तस्माद्विकारे यथाविहितमण् प्रत्ययो भवति यकारस्य च लुक । परशव्यस्यायसो विकारः पारशवम्, अण सिद्ध एव यलुगर्थं वचनम् । अथेह यग्रहणं किमर्थम् तदभावेऽप्यवर्णवर्णस्य [ ७-४-६८] इत्यन्तलुसिद्धौ लुग्ग्रहणात् अन्त्याभावेऽन्त्य सदेशस्त्रापि यकारस्य लुग भविष्यति ? सत्यम्, यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थम्, तेनोत्तरसूत्रे 'स्वरस्य परे प्राविधौ' (७-४-११० ) इत्यस्यानुपस्थानाद्यकारलोपे 'अवर्णवर्णस्य' (७-४-६८) इतीकारलोपो भवति ।४०॥
न्या० स० परशव्यात्-सदेशस्यापीति समीपस्यापीत्यर्थः । अन्त्याभावे इति न वाच्यं 'स्वरस्य' ७-४-११० इत्यकारस्य स्थानित्वं यविधित्वान्न संधीत्यस्यावस्थानात , यद्वाऽस्य लुक्ग्रहणरय नैरर्थक्यात् ।
तेनोत्तरेति अयमर्थोऽत्र परशव्याल्लुक चेत्येवमपि कृते सिध्यति, उत्तरत्र तु कंसीय शब्दात ज्ये सत्यस्य लोपे कृते 'स्वरस्य परे' ७-४-११० इत्यादिवशात् ईलोपो न स्यात् ।
हैमो निष्क इति हेम्नो विकारः, 'हेमादिभ्योऽञ्' ६-२-४५, 'नोपदस्य' ७-४-६१ इत्यन्लुप् । यद्यनेनाणू स्यात्तदाणीत्यन्त्यस्वरादिलुगभावः स्यात्, अकारान्तात्तु अनेनैवाण हैमः ।
कंसीयाञ् ञ्यः ॥ ६. २. ४१ ॥ ___ कंसाय इदं कंसीयं 'परिणामिनि तदर्थे' (७-१-४४) इतीयः, कंसीयशब्दाद्विकारे भ्यः प्रत्ययो भवति तत्संनियोगे यशब्दस्य लुक् च । कांसीयस्य विकारः कांस्यम् ।४१।