________________
७० ] बृहद्वृत्ति-लघुन्याससंदलिते [पाद. २ सू० ३२-३७ । प्राण्यौषधिवृक्षेभ्योऽवयव विकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वेदितव्यम् । प्राणिनश्चेतनावन्तः, औषधयः फलपाकान्ताः, वृक्षाः, पुष्पवन्तः फलवन्तश्च, वक्षविशेषत्वात् वनस्पतिवीरुधामपि वृक्षग्रहणेन ग्रहणम् । प्राणिग्रहणेनैव चेतनावत्त्वेन वृक्षौषधिग्रहणे सिद्धे तदुपादानमिह शास्त्रे प्राणिग्रहणेन त्रसा एव गृह्यन्ते न स्थावरा इति ज्ञापनार्थम् ।३१।
न्या० स० प्रार्यो०-वृक्षविशेषत्वादिति एकदेशेन फलवत्तया ऐक्यं न तु पुष्पवत्तया । तालाद्धनुषि ॥ ६. २. ३२ ॥
तालशब्दाद्धनुषि विकारे यथाविहितमण प्रत्ययो भवति, दुलक्षणस्य मयटोऽपवादः । तालस्य विकारस्तालं धनुः । धनुषोति किम् ? तालमयं काण्डम् ।३२।
न्या० स० ताला - तालस्य विकार इति तालस्य तालवृक्षकाष्ठस्य विकारः यतो धनुरोः संभवति न वृक्षात्, यदा तु तालशब्दो वृक्ष इति व्याख्यायते, तदावयवार्थोऽपि घटते, पारंपर्येण धनुरवयवो भवति वृक्षस्यापि ।
त्रपुजतोः षोऽन्तश्च ॥ ६. २. ३३ ॥
___ अपुजतु इत्येताभ्यां विकारे यथाविहितमण प्रत्ययो भवति तयोश्च षोऽन्तो भवति । त्रपुणो विकारः त्रापुषम्, जतुनो विकारः जातुषम्, अण् सिद्ध एव षागमार्थं वचनम् । चकारः संनियोगार्थः ।३३।
शम्या लः ॥ ६. २. ३४ ॥
शमीशब्दाद्विकारेऽवयवे च यथाविहितमण प्रत्ययो भवति तत्संनियोगे चास्य लोऽन्तः। शम्या विकारोऽवयवो वा शामीलं भस्म, शामीली शाखा ।३४। पयोद्रोर्यः ॥ ६. २. ३५॥
पयम् द्रु इत्येताभ्यां विकारे यः प्रत्ययो भवति, पयसोऽणोऽपवादः । द्रोरेकस्वरमयटः, पयसो विकारः पयस्यम्, द्रोर्दारुणो विकारो द्रव्यम् ।३५॥ उष्टादकञ् ॥ ६. २. ३६ ॥
उष्ट्रशब्दाद्विकारेऽवयवे चाकञ् प्रत्ययो भवति । उष्ट्रस्य उष्ट्रघा वा विकारोऽवयवो वा औष्ट्रकं मासम्, औष्ट्रिका जङ्घा ।३६। उमोर्णादा ॥ ६. २. ३७ ॥ उमा ऊर्णा इत्येताभ्यां यथासंभवं विकारेऽवयेव च वा अकञ् प्रत्ययो