________________
६६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. २. सू. १३-१७ ] औपगवानां समूह औपगवकम्, कापटवकम्, गार्गकम्, वात्सकम्, गार्ग्यायणकम्, वात्स्यायनकम्, उक्षन् औक्षकम्, वत्स वात्सकम्, उष्ट्र औष्ट्रकम्, वृद्ध वार्धकम्, अज आजकम्, उरभ्र औरभ्रकम्, मनुष्य मानुष्यकम्, राजन् राजकम्, राजन्य राजन्यकम्, राजपुत्र राजपुत्रकम् ।१२।
न्या० स० गोत्र०-मनुष्यराजन्यशब्दौ औणादिकौ इति पृथगुपादानम्, अण्प्रत्ययान्तयोस्तु गोत्रद्वारेण सिद्धम् ।
केदाराण्ण्यश्च ।। ६. २. १३ ।।
केदारशब्दात्समूहेऽर्थे ण्योऽकञ् च प्रत्ययौ भवतः, अचित्तेकणोऽपवादः । कैदार्यम्, कैदारकम् ।१३। कवचिहस्त्यचित्ताञ्चेकण् ॥ ६. २. १४ ॥
कवचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यः केदाराच्च समूहे इकण् प्रत्ययो भवति । कवचान्येषां सन्तीति कवचिनः, तेषां समूहः कायचिकम्, हस्तिनां लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहः हास्तिकम्, अचिचात्, आपूपिकम्, शाष्कुलिकम्, केदारात् कैदारिकम्, एवं केदारस्य त्रैरूप्यं भवति । ण्याकञ्भ्यां बाधा माभूदिति केदारात् इकण्श्विधानम् | १४ | न्या० स० कव० – इक विधानमिति अन्यथा अचित्तद्वारा सिध्यतीत्याशङ्क्याह । धेनोरनञः ।। ६. २. १५ ।।
धेनुशब्दात्समूहे इकण् प्रत्ययो भवति न चेत् स धेनुशब्दो नञः परो भवति । धेनुनां समूहो धैनुक्रम् अनञ इति किम् ? अधेनूनां समूह आधैनवम्, उत्सादित्वादञ । 'धेनोरनञः' (६ - १ - १५ ) इति प्रतिषेधो लिङ्गम् समूहे तदन्तस्यापि भवतीति, तेन क्षौद्रकमालवकम् ब्राह्मणराजन्यकम् वानरहस्तिकम् गौधेनुकम् ।१५।
न्या० स० घेनो०- आधै नवमिति 'बष्कयादसमासे ६-१ - २० इत्यत्रासमासवचनादुत्साद्यञ् तदन्तादपि, अनुशतिकादीनामुभयपदवृद्धिः ।
C
ब्राह्मण राजन्यकमिति न राजन्यमनुष्ययोः ' ६ - २ - ३३ इति यलोपाभावः । ब्राह्मणमाणववाडवाद्यः ।। ६.२. १६॥
ब्राह्मणमाणववाडव इत्येतेभ्यः समूहे यः प्रत्ययो भवति । ब्राह्मण्यम्, माणव्यम्, वाडव्यम् ।१६।
गणिकाया ण्यः ।। ६. २. १७ ।।
गणिका शब्दात्समूहे यः प्रत्ययो भवति । गाणिक्यम्, ब्राह्मणादीनां यविधानं