________________
पाद. २ सू. १०-१२ ] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [६५
न्या० स० षष्ठ्याः-प्रतिपदं केदाराण्ण्यश्च इति उक्षकवचिप्रभृतयः प्रतिपदोक्तत्वात् केदाराणण्यश्चेत्यादिषु द्रष्टव्या इति ‘गोत्रादकञ्' इत्यत्र न उक्ताः । समूह: समाहार एवेति द्वयोरप्येकार्थत्वात् समूह एव समाहार इत्यर्थः । डीनिवृत्ति स्यादिति तद्धितलुकि सत्यामिति शेषः । तदपवादबाधनार्थ इति ईयादीनामित्यर्थः । भिक्षादेः ॥ ६. २. १० ॥
भिक्षादिभ्यः षष्ठयन्तेभ्यः समूहेऽर्थे यथाविहितं प्रत्ययो भवति । भिक्षाणां सम्हो भैक्षम्, गाभिणम्, यौवतम्, अचित्तेकणो बाधनार्थं वचनम् । औलुक्यशब्दस्य गोत्राको बाधनार्थः पाठः, युवतेरण् सिद्ध एव, पुवद्भावबाधनार्थस्तु पाठः, अन्ये तु युवतिशब्दं न पठन्ति, तन्मते पुवद्भावे सति युवतीनां समहो यौवनमित्येव भवति ।
सुरूपमतिनेपथ्यं कलाकुशलयौवनम् ॥ यस्य पुण्यकृतः प्रैष्यं सफलं तस्य यौवनम् ॥ १॥ भिक्षा भिक्षशब्दोऽकारान्तोऽपीत्येके, गभिणी, युवति, क्षेत्र, करीष, अङ्गार, धर्मन्, वर्मन् चर्मिन्, वमिन्, पद्धति, सहस्र, अथर्वन्, दक्षिणा, खण्डिक, युग, वरत्रा, युगवरत्रा, हल, बन्ध, हलबन्ध, औलूक्य इति भिक्षादिः ।१०।
न्या० स० भिक्षा गाभिणमिति-अत्र गर्भिणीशब्दो मेघमालाशालिपङ्क्यादिवाचकत्वादचित्तविशेषवचन इतीकण्प्राप्तौ तद्बाधकोऽनेनाण् , ततो 'जातिश्च णि' ३-२-५१ इति पुंवद्भावे 'संयोगादिनः' ७-४-५३ इत्यन्तलोपप्रतिषेधः, गर्भवतीस्त्रवचनात्तु इकणोऽप्राप्तेरौत्सर्गिक एवाण । क्षुद्रकमालवात्सेनानानि ॥ ६. २. ११ ॥
क्षुद्रकमालवशब्दात् षष्ठयन्तात्समूहेऽर्थे यथाविहितमण् प्रत्ययो भवति सेनाया नाम्नि संज्ञायाम्, क्षुद्रकाश्च मालवाश्च क्षुद्रकमालवास्तेषां समूहः क्षौद्रकमालवी एवंनामा काचित्सेना । सेनानाम्नीति किम् ? क्षौद्रकमालवकमन्यत्, गोत्राकञ्बाधनार्थं वचनम् , समूहाधिकारे हि तदन्तस्यापि ग्रहणम् । 'धेनोरनञः' (६-१-१५) इति प्रतिषेधात् ।११।
__ न्या० स० क्षुद्र०-तदन्तस्यापीति अन्यथा 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति न्यायात् समुदायस्यागोत्रत्वात् क्षौद्रकमालवकमिति न सिध्येत् ।
गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥६. २. १२ ॥
स्वापत्यमंतानस्य स्वव्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रम् । गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यश्च समूहेऽकञ् प्रत्ययो भवति । अणोऽपवादः, गोत्र,