________________
६४ ] . बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू. ७-८-९]
फल्गुन्य इति ‘फल्गुनीप्रोष्ठ' २-२-१२३ इति बहुवभावः। पुष्ये पायसमिति पयसि संस्कृतं 'संस्कृते भक्ष्ये' ६-२-१४० अण् , पयसा संस्कृतमिति तु कृते 'संस्कृते' ६-४-३ इत्यनेनेकण् स्यात् । द्वन्द्वादीय ॥ ६. २. ७॥
चन्द्रयुक्त यन्नक्षत्रं तद्वन्द्वात्तृतीयान्तायुक्ते कालेऽर्थे ईयः प्रत्ययो भवति । राधानुराधाभिश्चन्द्रयुक्ताभिर्युक्तमहः राधानुराधीयमहः, अद्यराधानुराधीयम् । एवं तिष्यपुनर्वसवीया रात्रिः, अद्य तिष्यपुनर्वसवीयम् ॥७॥
___ न्या० स० द्वंद्वा-राधानुराधीयमिति राधाभिः चन्द्रयुक्ताभिर्युक्तः कालः 'चन्द्रयुक्त' ६-२-६ इत्यण, अप्रयुक्ते लुप् , ततो राधाश्च अनुराधाश्च राधानुराधाः ताभिः, एवं सर्वत्र । श्रवणाश्वत्थान्नाम्न्यः ॥ ६. २. ८॥
चन्द्रयुक्तनक्षत्रवाचिनः श्रवणशब्दादश्वत्थशब्दाच्च तृतीयान्तायुक्ते काले अकारः प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत् कस्यचित्कालविशेषस्य नाम भवति, श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः। श्रवणा पौर्णमासी, श्रवणो मुहूर्तः, अश्वत्थेन चन्द्रयुक्तेन युक्ता अश्वत्था रात्रिः, अश्वत्था पौर्णमासी, अश्वत्थो मुहूर्तः, सत्यपि अन्वर्थयोगे न कालमात्रमेव उच्यते अपि तु कालविशेष एवेति नामत्वम् । नाम्नीति किम् ? श्रावणमहः, श्रावणी रात्रिः, आश्वत्थमहः, आश्वत्थो रात्रिः ॥८॥
___ न्या० स० श्रव-पौर्णमासीति माति मिमीते वा असित्यस् , पूर्णोमासश्चन्द्रोऽस्यामस्ति पूर्णमासोऽण, पूर्णमास इयमिति वा, 'तस्येदम् ६-३-१६० इत्यण, पूर्णो मासोऽस्यां पूर्णमासा वा युक्ता 'सास्य पौर्णमासी' ६-२-९८ इत्यणि निपातो वा । षष्टयाः समूहे ॥ ६. २. ९ ॥
षष्ठयान्तान्नाम्न: समहेऽर्थे यथाविहितं प्रत्यया भवन्ति । गौत्रादकञ् वक्ष्यते अचित्तादिकण प्रतिपदं केदाराण्ण्यश्चेत्येवमादयः, ततोऽन्य दिहोदारणं द्रष्टव्यम् । चाषाणां समूहश्चाषम्, एवं काकं, वाकम्, शौकं, भैक्षुकम्, वाडवम्, वनस्पतीनां समूहो वानस्पत्यम्, खैणम्, पौंस्नम्, पञ्चानां कुमाराणां समूहः पञ्चकुमारीत्यत्र तु समूहः समाहार एव, स च समासार्थः समासेनैव च गत इति तद्धितो नोत्पद्यते । यद्यु-पद्येत को दोषः स्यात् उत्पन्नस्यापि ह्यस्य 'द्विगोरनपत्ये यस्वरादेलु बद्विः' (६-१-२४) इति लुपा भवितव्यम् तथा चाविशेषः ? नैवम्, 'यादेगौणस्य '-(२-४-९४) इत्यादिना डीनिवृत्तिः स्यात्, ‘तस्येदम् ' (६-३-१५९) इत्येवाणादिसिद्धौ समूहविवक्षायां तदपवादबाधनार्थो योगः: ॥ ९ ॥