________________
[ पाद. २. सू. ४-५-६ । श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [६३ नीलपीतादकम् ॥ ६. २. ४ ॥
नीलपीतशब्दाभ्यां रागविशेषवाचिभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अ क इत्येतो प्रत्ययौ भवतः। नीलेन लिङ्गविशिष्टग्रहणान्नील्या वा रक्त नीलम्, पीतेन रक्तं पीतकम्, के चित्तु पीतकशब्दादप्यप्रत्ययमिच्छन्ति, पीतकेन कुसुम्भप्रथमनिर्यासेन रक्त पीतकम्, गुणवचनत्वात्केनैव सिद्धे अणपवादार्थं वचनम् ।४। . न्या० स० नील-केचित्त्विति ते हि नीलपीतकादः पीतात्क इति द्वे सूत्रे विरचयन्ति । भणपवादार्थमिति अयमर्थः, इदं सूत्रं विनाऽपि नीलपीतगुणयोगान्नीलं पीतं च पीतात् तु स्वार्थिकेन कुत्सितार्थेन वा कपा पीतकमिति च सेत्स्यतीत्याशङ्का। । उदितगुरोर्भायुक्तेऽब्दे ॥ ६. २, ५॥
उदितो गुरुहस्पतिर्यस्मिन् भे नक्षत्रे तद्वाचिनस्तृतीयान्तात् युक्तऽर्थे यथाविहितं प्रत्ययो भवति स चेद्युक्तोऽर्थोऽब्दः संवत्सरः स्यात् । पुष्पेणोदितगुरुणा युक्तं वर्ष पौषं वर्षम्, फल्गुनीभिरुदितगुरुभिर्युक्तः फाल्गुनः संवत्सरः । उदितगुरोरिति किम् ? उदितशनैश्चरेण पुष्येण युक्त वर्षमित्यत्र न भवति । भादिति किम् ? उदितगुरुणा पूर्वरात्रेण युक्त वर्षम् । अब्द इति किम् ? मासे दिवसे वा न भवति ।५। । . चन्द्रयुक्तात्काले लुस्वप्रयुक्त च ॥ ६. २. ६ ॥
चन्द्रेण युक्त यन्नक्षत्रं तद्वाचिनस्तृतीयान्ताद्युक्तेऽर्थे ययाविहितं प्रत्ययो भवति स चेयुक्तोऽर्थः कालो भवति अप्रयुक्ते तु कालवाचके शन्दे लब भवति, पुष्येण चन्द्रयुक्तेन यूक्तमहः पौषमहः, एवं पौषी रात्रिः, पौषोऽहोरात्रः, पौषः कालः, माघमहः, माघी रात्रिः, माघोहोरात्रः, माघः कालः । चन्द्रयुक्तादिति किम् ? शुक्रयुक्तेन पुष्येण युक्तः कालः भादित्येव ? चन्द्रयुक्तेन शुक्रेण युक्तः काल: । काल इति किम् ? चन्द्रयुक्तेन पुष्येण युक्तो ग्रहः, लप स्वप्रयुक्ते, अघ पुष्यः । अद्य मघाः । दिवा कृत्तिकाः, रात्रौ फल्गुन्यः । पुष्ये पायसमश्नीयात् मघासु पललौदनम् । अप्रयुक्त इति किम् । पोषमहः, पौषी रात्रिः, पौषोऽहोरात्रः, पौषः कालः ।६।
. न्या० म० चन्द्रयुक्तात् काले- अहोरात्र इति एकाद् गत्रः समाहारः इति पुंक्लीबत्वं, कथं दीर्घण्यहोरात्राणीति समाहाराभावे निकाय्यरात्रवृत्रा इति पुंस्त्वमेव प्राप्तम् ? सत्यं, अहोरात्रं च ३ इत्येकशेषे ।
भद्य पुष्य इति अत्र अधेत्यस्याधारत्वमेव न सामानाधिकरण्यम् ।