________________
॥ द्वितीयः पादः ॥ रागाट्टो रक्ते ॥ ६. २. १ ॥
शुक्लस्य वर्णान्तरापादनमिह रञ्जरर्थः, रज्यतेऽनेनेति रागः कुसुम्भादिः । रागविशेषवाचिनो नाम्नष्ट इति तृतीयान्ताद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कुसुम्भेन रक्त बस्त्रं कौसुम्भम, एवं काषायम्, कोङ्कुमम्, माञ्जिष्ठम्, हारिद्रम्, माहारजनम्, वाधिकारात्पक्षे वाक्यं समासश्च भवति । कुसुम्भेन रक्तम् कुसुम्भरक्तम् इत्यादि । रागादिति किम् ? चैत्रेण रक्तम् । पाणिना रक्तम् । रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते, तेनेह न भवति । कृष्णेन रक्तम्, लोहितेन रक्तम्, पीतेन रक्तमिति, एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः। कथं काषायौ गर्दभस्य कणौ हारिद्रौ कुक्कुटस्य पादाविति ? काषायाविव काषायी हारिद्राविव हारिद्रौ इत्युपमानोपमेयभावेन तद्गुणाध्यारोपाद्भविष्यति ॥ १ ॥
न्या० स० रागा०-शुक्लस्य वर्णान्तरापादनमिति-उपलक्षणमिदमन्येषामपि वर्णानां वर्णान्तरापादनमिह रञ्जरर्थः । .. तृतीयान्तादिति टइत्यके देशेन समुदायोपलक्षणत्वात्तृतीया लभ्यते ।
द्रव्यवृत्तय इति द्रव्येषु कुसुम्भादिषु वृत्तिर्येषां द्रव्याश्रयी गुण इति कृत्वा । न तु रागाख्या इति-रज्यते अनेनेति गगशब्दव्युत्पत्तरघटनात् । लाक्षागेचनादिकण् ॥ ६. २. २॥
लाक्षारोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे इकण प्रत्ययो भवति अणोऽपवादः । लाक्षया रकं लाक्षिकम्, रोचनया रक्तम् रौचनिकम् ।।२।। शकलकर्दमादा ॥ ६. २. ३ ॥
शकल कर्दम इत्येताभ्यां तृतीयान्ताभ्यां रागविशेषवाचिभ्यां रक्तमित्येतस्मिन्नर्थे इकण प्रत्ययो वा भवति । शकलेन रक्तम् शाकलिकम्, शाकलम्, कार्दमिकम् कादमम् ॥ ३ ॥
न्या० स० शकल-शकलं रक्तचन्दनं कर्धरवर्णो वा, कर्दमस्तु मृद्विकारविशेषः स च पाण्ड्यमण्डले प्रसिद्ध इति विश्रान्तः ।