________________
[ पाद २. सू. १८-२३ ] . श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [६७ पुवद्भावार्थम् । ब्राह्मणाः प्रकृता अस्यां यात्रायां 'तयोः समूहवच्च बहुषु' (७-३-३) इति यः प्रत्ययः। ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः,माणव्ययात्रः, वाडव्ययात्रः । ण्ये हि पुंवद्भवो न स्यात् यथा गाणिक्यायात्रः ।१७।
न्या० स० गणि०-पुंवद्भावो न स्यादिति ‘तद्धितः स्वरवृद्धि' ३-२-५५ इति निषेधात् । केशादा ॥ ६. २. १८॥ __ केशशब्दात् समूहे ण्यः प्रत्ययो वा भवति । केशानां समूहः कैश्यं कैशिकम्, अचित्तलक्षण इकण् ।१८॥ वावादीयः ॥ ६. २. १९ ॥
अश्वशब्दात्समूहे ईयः प्रत्ययो वा भवति । अश्वोयम्, आश्वम् ।१९। पर्था ड्वण ॥ ६. २. २० ॥
पशू शब्दात्समहे डवण् प्रत्ययो भवति, इकणोऽपवादः । पशूनां समूहः पार्श्वम् । डित्करणमन्त्यस्वरादिलोपार्थम् ।२०।
न्या० स० पर्वा ड्वण्-पार्वा स्थिवाचिनः पशूशब्दादूङ् । ईनोऽह्नः क्रतौ ॥ ६. २. २१ ॥
अहन्शब्दात्समूहे ऋतौ वाच्ये ईनः प्रत्ययो भवति । अह्नां समूहोऽहीनः ऋतुः । क्रताविति किम् ? आह्नमन्यत्, श्वादिपाठादञ् ।२१। पृष्ठाद्यः ॥ ६. २. २२ ॥
पृष्ठशब्दात्समूहे ऋतौ वाच्ये यः प्रत्ययो भवति । पृष्ठानां समूहः पृष्ठयः क्रतुः, पृष्ठशब्दोऽहःपर्यायः। रथन्तरादिसामपर्याय इत्यन्ये । क्रतावित्येव ? पाष्ठिकम् ।२२। चरणाद्धमेवत् ॥ ६. २. २३ ॥
चरणं कठकालापादि तस्माद्यथा धर्मे प्रत्यया भवन्ति तथा समहेऽपि । वत्सर्वसादश्यार्थः, तेन यकाभ्यः प्रकृतिभ्यो यः प्रत्ययो यथा धर्मे भवति ताभ्य एव प्रकृतिभ्यः सः एव प्रत्ययस्तथैवेह भवति । यथा कठानां धर्मः काठकम् कालापकम् छान्दोग्यम् औक्थिक्यम् बाह्वयम् आथर्वणम् तथा समहेऽपि काठकमित्यादि ।२३।
न्या० स० चर०-परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थे गमयन्तीत्याहवत्सर्वसादृश्यार्थ इति। औक्थिक्यमिति उक्थमधीते केचिदक्थिक्यस्यापीति अक्थिक्यं वाधीते 'याज्ञिकौक्थिक' ६-२-१२२ इति इकणन्तो निपातः ।