________________
[ पाद
५८ ] बृहद्वृत्ति-लघुन्याससंवलिते
। १३९ । वायनणायनित्रोः ॥ ६. १. १३८ ॥
आयनण आयनित्रश्च यून्यपत्ये विहितस्य प्रागजितीये स्वरादौ प्रत्यये विषयभूते लुब् वा भवति, गर्गस्यापत्यं गार्यः तस्यापत्यं युवा गाायणः, 'यनिञः' (६-१-५४) इत्यायनण, तस्य छात्रा गार्गीयाः गाायणीया वा, 'दोरीयः' (६-३-३१) इतीयः । चिङ्कस्यापत्यं चैङ्किः तस्यापत्यं युवा चैङ्कायनः, तस्य छात्राः चैङ्कीयाः चैङ्कायनीया वा, आयनिञः खल्वपि । होतुरपत्यं होत्रः तस्यापत्यं युवा हौत्रायणिः, द्विस्वरादणः' (६-१-१०९) इत्यायनिरू, तस्य छात्राः हौत्रीयाः हौत्रायणीया वा । 'दोरीयः' (६-३-३१) इतीयः। आयनणो णित उपादानात् जितः पूर्वेण नित्यमेव लुप्, अत्रेरपत्यमात्रेयः । तस्यापत्य भारद्वाजो युवा आत्रेयायणः, 'आत्रेयाद्भारद्वाजे' (६-१-५२) इत्यायनञ् तस्य छात्राः आत्रेयीयाः ।१३८॥ __ न्या. स. वाय-चैडीया इति 'वृद्धेवः' ६-३-२८ इत्यञ् न भवति 'न द्विस्वरात् ६-३-२९ इति प्रतिषेधात् । द्रीत्रो वा ॥६. १. १३९ ॥
प्राजितीये स्वर इति निवृत्तम्, द्रिसंज्ञो य इञ् तदन्तात्परस्य युवप्रत्ययस्य लुब् वा भवति । उदुम्बरस्यापत्यमोदुम्बरिः, 'साल्वांश'(६-१-११७) इत्यादिनेञ् । तस्यापत्यं युवा औदुम्बरिः औदुम्बरायणो वा, ‘य जिनः' (६-१-५४) इत्यायनण् । द्रिग्रहणं किम् ? दाक्षेरपत्यं दाक्षायणः । इत्र इति किम् ? अङ्गस्यापत्यमाङ्गः । 'पुरुमगध'(६-१-११६) इत्यादिना अण, तस्यापत्य मिति 'द्विस्वरादणः' (६-१-१०९) इत्याय निन्, तस्य 'अब्राह्मणात्' (६-१-१४१) इति नित्यं लप् । आङ्गः पिता, आङ्गः पुत्रः । 'अब्राह्मणात्' इति नित्यं लुपि प्राप्तायां विकल्पार्थं वचनम् ।१३९।
न्या० स० द्रीत्रो-प्रागजितीये स्वर इति निवृत्तमिति-अस्य सूत्रस्य करणात्, अन्यथेचन्तात् आयनणैव भाव्यमिति पूर्वेणैव सिद्धे इदं न कुर्यात् ।
नन्वायनणैव भाव्यमिति न वाच्यं यत उदुम्बरस्यापत्यं स्त्री इञ् । नुर्जाती तदा चन्तात 'याप्त्यूकः' ६-१-७० इति एयण प्राप्नोति इति प्रागजितीये प्रत्यये एतद्विना लोपो न प्राप्नोतीत्येतदर्थ कस्मान्न भवति ? सत्यं, यद्येतदर्थ स्यात्तदा यूनि लुपि यस्याने इदं कुर्यात् ।