________________
[ पाद. १. सू. १३६-१३७ ] श्री सिद्ध हेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः [ ५७ गर्गमार्गविकेत्युत्तरसूत्रं वेति यदा कश्चित् प्रत्यासत्तिममन्यमानो ढौकते तदेदमुत्तरं, यद्वा यदा द्वंद्वपदानां कुक्कुटमयावित्यादिवत् कृत्स्नमादेशं विवक्ष्यते, यद्वा यदा द्वन्द्वात्परं पदं श्रूयमाणं प्रत्येकमभिसंबध्यते तदा एवमुत्तरम् ।
गर्गभार्गविका ॥ ६. १. १३६ ।।
गर्गभार्गविकेति द्वन्द्वात् प्राग्ज्जतीये विवाहे यो विधोयतेऽकल् प्रत्ययस्तस्मिन् अणो लुप्प्रतिषेधो निपात्यते । गर्गाणां वृद्धानां भृगूणां वृद्धानां यूनां च विवाह गर्ग भाविका, अभिभरद्वाजिकादिवदप्राप्तः प्रतिषेधो निपात्यते । १३६ ।
न्या० स० गर्ग- गर्गस्य यूनि गार्ग्यायणानामिति प्राप्नोतीति गर्गाणां वृद्धानामित्येवाह भृगोस्तु यून्यपि 'निदार्षात् ६-१-१४० इति लुबिति यूनां चेत्याह ।
यूनि लुप् ।। ६. १. १३७ ॥
तस्य
यून्यपत्ये विहितस्य प्रत्ययस्य प्राग्जितीये स्वरादौ प्रत्यये विषयभूतेऽनूत्पन्न एव लुप् भवति, लुपि सत्यां यो यतः प्राप्नोति स तत उत्पद्यते । पाण्टाहृतस्यापत्यं पाण्टाहृतिः, तस्यापत्यं युवा पाण्टाहृतः, 'पाण्टाहृतिमिमताण्णश्च ( ६-१-१०४) इति णः । तस्य छात्रा इति प्राग्जितीये स्वरादौ चिकीर्षिते णस्य लुप्, तत इञन्तं प्रकृतिरूपं संपन्नम् इति ' वृद्धेञः ' ( ६-३-२८) इत्यञ् भवति । पाण्टाहृताः भगवित्तस्यापत्यं भागवित्तिः तस्यापत्यं युवा भागवित्तिकः । ' भागवित्तितार्णविन्दव ' - ( ६- १ - १०५ ) इत्यादिना इकण्, छात्रा इति पूर्ववदिकणि निवृत्तेऽम् । भागवित्ताः, वृषस्यापत्यं वार्ष्याणिः, तस्यापत्यं युवा वार्ष्यायणीयः, 'सौयामायनि ' - ( ६-१-१०६) इत्यादिनेयः । तस्य छात्रा इति पूर्ववदीयस्य लुपि 'दोरीयः ( ६-३-३१) इतीयः । वार्ष्यायणीयाः, कपिञ्जलादस्यापत्यं कापिञ्जलादिस्तस्यापत्यं युवा कापिञ्जलाद्यः, कुर्वादित्वात् ञ्यः, तस्य छात्राः पूर्ववत् व्यस्य लुपि 'बुद्धेञ : ' ( ६-३-२८ ) इत्यन् । कापिञ्जलादाः, ग्लुचुकस्यापत्यं ग्लुचुकायनिः तस्यापत्यं युवा ग्लोचुकायनः, औत्सर्गिकोऽण् । तस्य छात्रा इति पूर्ववदणो लुपि पुनः शैषिकोऽणेव भवति । ग्लौचुकायनाः स्वर इत्येव ? पाण्टाहृतमयम्, वार्ष्यायणीयरूप्यम् । प्राग्जितीय इत्येव ? भागवित्तिकाय हितं भागवित्तिकीयम् | १३७।
,
न्या० स० यूनि-तस्यापत्यं युबेति वार्ष्यायणेः सौवीरदेशस्थस्यापत्यं युवा युवा निन्दितः । वार्ष्यायणीया इति न वाच्यं प्रस्थपुर ' ६-३-४३ इत्यकव्यः प्राप्तिर्यतस्तेन देशवाचकाद् भवतीति ।