________________
५६ ]
बृहद्वृत्ति-लघुन्याससंवलिते पाद. १ सू० १३५ ) गार्ययोर्वा कुलं गर्म कुलम्, गार्ग्यकुलम्, एवं बिदकुलम्, बैदकुलम् अगस्तिकुलम्, मागस्त्यकुलम्, भृगुकुलम्, भार्गवकुलम् । द्वचेकेष्विति किम् ? गर्गाणां कुलम् गर्गकुलम् । षष्ठया इति किम् ? गाय॑हितम्, परमगार्ग्यः । षष्ठया इति तत्पुरुषस्य विशेषणेन प्रतिपदोक्तस्यैव षष्ठीतत्पुरुषस्य परिग्रहादिह न भवति, मार्गस्य गाय॑योन्तिर्गतः अन्तर्गार्य: । 'प्रात्यव'-(३-१-४७) इत्यादिना समासः । केष्वित्यस्य षष्ठया इति विशेषणं किम् । देवदत्तस्य मार्म्यः देवदत्तगार्ग्यः, देवदत्तगाग्यौं । तत्पुरुष इति किम् ? गाय॑स्य समीपमुपगार्ग्यम् । यादेरिति किम् ? आङ्गकुलम्, यास्ककुलम् ।१३४।
। न्या० स० द्व्येके-प्रात्यवेत्यादिना समास इति बाहुलकात् षष्ठ्यन्तेन समासः, यतस्तत्र पञ्चम्यन्तान्तैरेव समास उक्तः । न प्राग्जितीये स्वरे ॥ ६. १. १३५ ॥
गोत्र इति वर्तते, गोत्रे उत्पन्नस्य बहुष या लुबुक्ता सा प्राम्जितीयेऽर्थे यो विधीयते स्वरादिस्तद्धितस्तस्मिन् विषयभूते न भवति । गर्गाणां छात्राः गार्गीयाः, वात्सीयाः, आत्रेयीयाः, आगस्तीयाः, खारपायणीयाः, हारितीयाः । प्रागजितीये इति किम् ? अत्रिभ्यो हितः अत्रीयः, अगस्तीयः, गर्गीयः, वत्सीयः। स्वर इति किम् ? गर्गेभ्य आगतं गर्गमयम्, गर्गरूप्यम्, बिदानामपत्यं युवा बैदः, बैदावित्यत्र तु इञि विषयभूतेऽनेन प्रतिषेधः । इञस्तु लुपि सत्यामजन्तं न बहुषु वर्तते इति लुपः प्राप्तिरेव नास्ति । यत्र त्वस्ति तत्र भवत्येव, बिदानामपत्यानि बिदाः । अथेह कस्मान्न भवति अत्रीणां भरद्वाजानां च विवाहः अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिकिकेति ? उच्यते, प्रत्यासत्तेर्यस्य प्रत्ययस्य लुप् प्रतिषिध्यते तल्लोपिप्रत्ययान्तादेव विधीयमाने स्वरादी प्रतिषेधः, अत्र द्वन्द्वाद्विधीयते न तल्लोपिप्रत्ययान्तादिति प्रतिषेधो न भवति । 'गर्गभार्गविका' (६-१-१३६ ) इत्युत्तरसूत्रं वा नियमार्थं व्याख्यायते । गर्मभार्गविकाया अन्यत्र द्वन्द्वे वृद्ध यूनि वा प्रतिषेधो न भवति । गोत्र इत्येव ? कुवल्याः फलं कुवलम्, तस्येदं कौवलम् ।१३५॥
न्या० स० न प्रागू-गार्गीया इति ननु गार्गीया इत्यादौ विषयव्याख्यानादुत्पन्ने प्रत्यये पश्चाल्लोपः कथं न भवति ? ___ उच्यते, विषयव्याख्यानेन त्रैकाल्यमपि गृह्यते, तेन यो वर्तते, यो भूतो यश्च भावी तस्मिन् सर्वस्मिन् न लोपो भवतीत्यर्थः ।
तल्लोपिप्रत्ययान्तादिति-स लोपी प्रत्ययोऽन्ते यस्य तस्मादित्यर्थः ।