________________
[ पाद १. सू० १३३ - १३४]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
[ ५५
विशेषणात् ।
अङ्गवङ्गसुह्माः, अत्र द्विस्वरलक्षणस्याण:, एवं गर्गवत्सवाजाः । अत्र यञः, बिदगर्गयस्काः । अत्राजो यञोऽणश्च । तथेति किम् ? यास्कलाह्याश्छात्राः । अत्र ' तस्येदम् ' ( ६-३ - १५९ ) इत्यणो लुप् न भवति 'यस्कादेर्गोत्रे ' ( ६-१-१२५ ) इत्यत्र गोत्रे उत्पन्नस्येति प्रत्ययस्य गार्गीवत्सवाजाः, अत्र वत्सवाजयोरेव यजो लुप् न गार्गी इत्यत्र तत्राखियामिति प्रतिषेधात्, शैग्रवगौपवनाः । अत्र ' अश्यापर्णान्तगोपवनादेः' इति प्रतिषेधात् अञो लुप् न भवति । बालाकिहास्तिदासयः, अत्र प्राग्भरतेति वचनात् अप्राग्भरते न भवति । व्यादिग्रहणमगोत्रेऽपि यथा स्यादित्येवमर्थम् अबह्वर्थं वचनम् ।१३२॥
न्या० स० दूयादे तथा- यादिप्रत्ययान्तानामिति ' बहुष्वस्त्रियामित्यारभ्य ये केचन लोपनीयाः प्रत्ययास्ते द्यादयो ज्ञेयाः, 'द्रेश्वणः ' ६-१-१२३ इत्यनेन तु एकत्वद्वित्वबहुत्वसामान्ये लुबुक्तानेनापि तथैवेति न तत्रास्य कश्चिदुपयोगोऽतो ' बहुष्वस्त्रियाम् ' ६-१-१२४ इत्यारभ्योदाह्रियते ।
यथापूर्वमिति-पूर्वप्रत्ययान्तबहुत्वे यस्य लुब् भवति, द्वन्द्वे बहुत्वेऽपि तस्यैव भवति, यस् न भवति, तस्य न भक्त्येव, यस्यादेशेन सह तस्यादेशेन सहैव यस्य विकल्पस्तस्य विकल्प एवेत्यर्थः ।
व्यादिग्रहणमगोत्रेपीति ननु तथेति भणनाद्येषां पूर्वं बहुषु लबुक्ता तेषामेव भविष्यति किं व्यादिग्रहणेन ? इत्याह-अयमर्थः, यदि व्यादिग्रहणं न क्रियेत तदा ' यस्कादेर्गोत्रे ' ६-१-१२२ इत्यतो गोत्र इत्यनुवर्तमाने गोत्र एव लुप् स्यात् यथा अङ्गबङ्गसुम्हा इति नागोत्रे यथा वृकलोहध्वजकुण्डीवृशा इत्ति ।
वान्येन ॥। ६. १. १३३॥
यादेरन्येन सह त्र्यादीनां द्वन्द्वे बहुष्वर्थेषु वर्तमाने य स यादिप्रत्ययस्तस्य तथा वा लुप् भवति यथा पूर्वम् । अङ्गवङ्गदाक्षयः, आङ्गवाङ्गदाक्षयः, गर्गवत्सौपगवाः, गार्ग्य वात्स्यौपगवाः, भृगुवत्साग्रायणाः, भार्गववात्स्याग्रायणाः, गर्गकश्यपगालवाः, गार्ग्य काश्यपगालवाः, पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम् ॥१३३॥
मा० स० वान्ये बिकल्पार्थमिति पूर्वेण 'द्यादे: ' ६-१-१३२ इति सामान्यभणनादत्रापि सिद्धे यत्रान्येन सह द्वन्द्वः तत्रानेन विकल्प एवेत्यर्थः ।
द्येषु षष्ठ्यास्तत्पुरुषे यत्रादेर्वा ॥ १. १. १३४ ॥
षष्ठीतत्पुरुषे यत्पदं तस्याः षष्ठचा विषये द्वयोरेकस्मिंश्च वर्तते तस्य यः स यजादिः प्रत्ययस्तस्य तथा वा लुक् भवति यथा पूर्वम् । गार्ग्यस्य