________________
५४ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. १ सू० १३१-१३२] तिककितवादी द्वन्दे ॥ ६. १. १३१ ।।
तिककितवादिषु द्वन्द्ववृत्तिषु बहुषु गोत्रापत्येष वर्तमानेषु तैकायनिकैतवायनीत्यादीनां यः स प्रत्ययस्तस्यास्त्रियां लुप भवति । तैकायनयश्च कैतवायनयश्च तिककितवाः, तिकाद्यायनिनो लुप् । औब्जयश्च काकुभाश्च उब्जककुभाः, उब्जादिनः ककुभाच्छिवाद्यणः। औरशायनयश्च लाङ्कटयश्च उरशलङ्कटाः, उरशात्तिकाद्यायनिजः लङ्कटात् इञः। अग्निवेशाश्च दाशेरकयश्च अग्निवेशदशेरकाः, शण्डिलाश्च काशकृत्स्नयश्च शण्डिलकशकृत्स्नाः , अग्निवेशशण्डिलाभ्यां गर्गादियः दशेरककशकृत्स्नाभ्यां त्वत इञः । 'वान्येन '(६-१-१३३) इति यत्रो लुब्बिकल्पे प्राप्ते नित्यार्थः पाठः । औपकायनाश्च लामकायनाश्च उपकलमकाः, अत्र नडाद्यायनणः । भ्राष्ट्रकयश्च कापिष्ठलयश्च भ्रष्ट्रककपिष्ठलाः, कार्णाजिनयश्च कार्णसुन्दरयश्च कृष्णाजिन कृष्णसुन्दराः, वाङ्खरयश्च भाण्डीरथयश्च वङ्खरभण्डीरथाः, पाहकयश्च नारक यश्च पहकनरकाः, बाकनखयश्च स्वागुदपारिणद्धयश्च बकनखस्वगुदपरिणद्धाः, अन्येषां बाकनखयश्च स्वागुदयश्च पारिणद्धयश्चेति त्रिपदो द्वन्द्वः । (ता)लायश्च शान्तमुखयश्च (ता) लाङ्कशान्तमुखाः। एषु सर्वेष्वत इनः । उपकलमकाः भ्रष्ट्रककपिष्ठलाः कृष्णाजिनकृष्णसुन्दरा इत्येषामुपकादिष्वद्वन्द्वार्थः पाठः द्वन्द्वे त्वयमेव नित्यो विधिः । तिककितव, उब्जककुभ, उरशलङ्कट, अग्निवेशदशेरक, शण्डिलकशकृत्स्न, उपकलमक, भ्रष्ट्रककपिष्ठल, कृष्णाजिनकृष्णसुन्दर, वसरभण्डीरथ, पहकनरक, बकनख, स्वगुदपरिणद्ध (ता) लडुशान्तमुख इति तिककितवादिः । १३१।
न्या० स० तिककितवादी-समासकालेऽपि बहुत्वावृत्तित्वात् 'यवनः' ६-१-१२६ इति यियो लपि अग्निवेशाइच शण्डिलाश्चेति समासः । ___ लुब्दिकल्पे प्राप्ते इति द्वयोरग्निवेशशण्डिल शब्दयोर्यन्तयोरित्यर्थः, अयनन्तानां तु अङ्यन्तत्वान्न । द्यादेस्तथा ॥ ६. १. १३२ ॥
यादिप्रत्ययान्तानां द्वन्द्वेऽबहुध्वर्थेषु वर्तमाने य: स द्यादिप्रत्ययस्तस्य लुप् भवति तथा यथापूर्वम् । बार्केण्यश्च लौहध्वज्यश्च कौण्डीवृश्यश्च वृकलोहध्वजकुण्डीवृशाः । अत्र 'वृकाट्टेण्यण' (७-३-६४) इति टेण्यणः • पूगादमुख्यकाञ्यो द्रिः' (७-३-६०) इति ज्यस्य 'बाहीकेष्वब्राह्मणराजन्येभ्यः ' (७-३-६३) इति ज्यटश्च लुप् । आङ्गश्च वाङ्गश्च सौह्मश्च