________________
[ पाद. १. सू. १३० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [ ५३ बहुस्वरादिति किम् ? चयः, पौष्पयः, काशयः, वाशयः। इज इति किम् ? शान्तनवाः ।१२९। ___ न्या० स० प्राग्भरते -प्रागग्रहणेनाग्रहणार्थमिति अयमर्थः अन्यत्र सूत्रे प्राग्ग्रहणेन भरताग्रहणमित्याह-राजसु लुब् न भवतीति प्राच्या भरता द्वेधा वैश्या राजानश्च, ततो वैश्येषु वाच्येषु लुब् भवति न राजसु, उदीच्यभारता यजान एवोच्यन्ते तेषु प्राग्ग्रहणान्न लुप् । वोपकादेः ॥ ६. १. १३०॥
उपक इत्येवमादिभ्यो यः प्रत्ययस्तदन्तस्य बहुत्वविशिष्टे गोत्रे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति वा । उपकाः, औपकायनाः, लमकाः, लामकायनाः। अस्त्रियामित्येव ? औपकायिन्यः खियः। उपक, लमक आभ्यां नडाद्यायनणो लुप्, भ्रष्टक, कपिष्ठल, कृष्णाजिन, कृष्णसुन्दर, पिङ्गलक, कृष्णपिङ्गल, कलशीकण्ठ, दामकण्ठ, जतुक, कनक, मदाघ, अपजग्ध, अडारक, वटारक, प्रतिलोम, अनुलोम, प्रतान, अनुपद, अभिहित, अनभिहित, खारीजङ्घ, कशकृत्स्न, शलाथल, कमन्दक, कमन्तक, कवन्तक, पिझूलक, अडडुक, अवव्वक, पतञ्जल, पदञ्जण, वर्णक, पर्णक कठेरित, एभ्योऽत इत्रः । कुषीतक, अत्र काश्यपेऽर्थे । विकर्णकुषोतकात्काश्यपे' (६-१-७५) इत्येयणः । अन्यत्रेञः। लेखाभ्रः, अत्र शुभ्राद्येयणः । पिष्ट, सुपिष्ट, मसुरकर्ण, कर्णक, पर्णक, जटिलक, बधिरक, एभ्यः शिवाद्यणः । कठेलिति पतञ्जलि, खरीखन, एभ्य औतसर्गिकाणः, इत्युपकादिः ।१३०। ___न्या० स० वोपकादेः अथ गणः उपकायति, कपेरिव स्थलमस्य, कृष्णमजति 'विपिन' २८४ ( उणादि ) इति कृष्णमजिनमस्य वा, अपकृष्टं जग्धं यस्य अपात्ति स्मेति वापजग्धः, अडत्यच् , अडं वृश्चिकलाङ्गुलमियर्ति अडारकः वटारस्य तुल्यो वटारकः प्रतिगतं लोमानुगतं लोम 'प्रत्यन्ववात्सामलोम्नः' ७-३-८२ प्रतिलोम, अनुलोम । 'तन्व्यधि' ५-१-६४ प्रतान: अभिदधाति अनभिधीयते स्म 'शीरी' २०१ ( उणादि ) खारोवजङ्घा यस्य, कमन्दति कमन्दकः । कमन्तति कमन्तकः । कौति कवः कवमन्तति कवन्तकः । 'पिञ्जिमञ्जि' ४८८ ( उणादि) इति पिजूलः, अडति उद्यतते अड् अडमड्डति अडड्डकः, अवमवति 'कीचक' ३३ ( उणादि ) इति अवव्वकः । पतो जलात् पाञ्जलः । णके कर्णकः, जटिलं बधिरं च कायति बधिरस्य तुल्यो वा जटिलकः बधिरकः । कठमेनमित्यात् कठेलितिः । पतोऽञ्जलेः पतञ्जलिः । खरी खनति खरीखन: इत्युपकादिः।
पर्णकशब्दस्य ऋषिवचनस्य शिवादौ पाठात् क्रियावचनादत इव, अतः पर्णाति करोतीति वाक्यं, अत्र गणेऽर्थभेदात् न्यासकारैर्द्विरुपात्तः ।