________________
५२]
बृहदृत्ति-लघुन्याससंवलिते [पा० १. सू० १२८-१२९ ] भृग्वङ्गिरस्कृत्सवसिष्ठगोतमात्रेः ॥ ६. १. १२८ ।। ___ भृगु, अङ्गिरस्, कुत्स, वसिष्ठ, गोतम, अत्रि इत्येतेभ्यो यः प्रत्ययस्तदन्तस्य बहुत्वविशिष्ठ गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रिया लुब् भवति । भार्गवः, भार्गवी, भृगवः, एवमङ्गिरसः, कुत्साः, वसिष्ठाः, गौतमाः, एभ्योऽणो लुप् । अत्रयः। एयणो लुप् । अस्त्रियामित्येव भार्गव्यः आङ्गिरस्यः आत्रेय्यः स्त्रियः । बहुष्वित्येव ? भार्गवः, आत्रेयः। गोत्रे इत्येव ? भार्गवाश्छात्राः । भृग्वादीन् यस्कादिष्वपठित्वेदं वचनं 'व्य केषु षष्ठयास्तत्पुरुषे यत्रादेर्वा' (६-१-१३४) इत्येवमर्थम्, अन्यथा भृगुकुलं भार्गवकुलमिति न सिध्येत् ।१२८।
न्या० स० भृगवङ्गिरः-भृगुकुलमिति भृगोरपत्यमपत्ये वा ऋष्यण् , भार्गवस्य भार्गवयोर्वा कुलम् । ___न सिध्येदिति तदाऽयनादित्वात् तत्र हि यादेर्वेत्युक्तं, ततश्च ‘यानोऽश्यापर्ण' ६-१-१२६ इत्यारभ्य येषां बहुत्वे लुप् तेषामेकत्वद्वित्वयोरपि लुप् ।
प्रागभरते बहुस्वरादित्रः ॥ ६. १. १२९ ॥ ___ बहुस्वरान्नाम्नो य इञ् प्रत्ययस्तदन्तस्य बहुत्वविशिष्ठेऽर्थे प्राग्गोत्रे भरतगोत्रे च वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति । क्षरकलम्भिः , क्षरकलम्भी, क्षीरकलम्भाः, पान्नागारिः, पान्नागारी, पन्नागाराः, मान्थरेषणिः, मान्थरेषणी, मन्थरेषणाः। सर्वेष्वत इञः। भरत, यौधिष्ठिरिः, यौधिष्ठिरी, युधिष्ठिराः, आर्जु निः, आर्जुनी, अर्जुनाः, औद्दालकिः, औद्दालकी, उद्दालकाः । एभ्यो बाह्वादीनः । प्राग्भरत इति किम् । बालाकयः, हास्तिदासयः । कथं तौल्वलयः, तैल्वलयः, तैल्वकयः इत्यादिषु लुब् न भवति ? उच्यते, यस्कादिषु पुष्करसच्छब्दपाठात्, अस्य हि बहुस्वरत्वादनेनैवेलोपे सिद्धे तदर्थो यस्कादिपाठो ज्ञापयति तौल्वल्यादीनामिनो लुप् न भवतीति, भरताः प्राच्या एव तेषां पृथगुपादानं प्राग्ग्रहणेनाग्रहणार्थम्, तेन यौधिष्ठिरिः पिता यौधिष्ठिरायणः पुत्र इत्यत्र 'प्राच्येत्रोऽतोल्वल्यादेः' (६-१-१४३) इति लुप् न भवति । अपरे त्वाहुः । प्रागग्रहणं भरतविशेषणम् । क्षीरकलम्भादयो वैश्याः प्राग्भरताः, युधिष्ठिरादयो राजान उदग्भरताः, तत्र प्राग्ग्रहणादुदीच्यभरतेषु राजसु लुब् न भवति । यौधिष्ठिरयः, आर्जुनयः, भरतग्रहणात्तु प्राच्येषु राजसु लुप् न भवति । मारसंबन्धयः, भागवित्तयः ।