________________
[ पाद. १. सू. १२६-१२७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [५१ इति, अत्र हि यान्तस्य बहुविषयत्वात् लुप् प्राप्नोति ? नैवम्, न यजन्तं बहषु कि तहि समासः स च 'प्रत्ययः प्रकृत्यादेः' (७-४-११५) इति नियमात् यजन्तो न भवतीति लुप् न भवति, प्रिया गर्गा यस्य स प्रियगर्ग इत्यत्र तु यअन्तस्य बहुत्वाद्भवत्येव ।१२६।
न्या० स० ययनोऽश्याप-स्त्रीत्वनिवृत्तेलबिति यदा पञ्चभिर्गार्गीभिः क्रीता इकणू लुप, पुंवत् ततो बाह्यस्त्र्यापेक्षयाप् पञ्चगाा दशगार्या इत्येव भवतीति न्यासः, अञ सूत्रे गोपवनादौ दुसंज्ञकानां पूर्वाचार्यानुरोधात् पाठः, यावता नास्ति विशेषः, यतोऽबि लुपि सयामपि न प्रागजितीय' ६-१-१३५ इति निषेधात् 'संघघोष' ६-२-१७२ इत्यादिनाणेव भाव्यम् ।
कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥ ६. १. १२७ ॥ ____ कौण्डिन्य आगस्त्य इत्येतयोर्बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानयोर्योऽणश्चास्त्रियां लब भवति तयोश्च कुण्डिनीअगस्त्यशब्दयोः कुण्डिन अगस्ति इत्येतावादेशौ भवतः, आगस्त्यशब्दस्य ऋप्यणन्तत्वात् यत्रो न संभवतः, कूण्डिन्या अपत्यं गर्गादित्वाध, अत एव निर्देशात्पुवद्भावाभावः । कौण्डिन्यः, कौण्डिन्यौ, कूण्डिनाः, आगस्त्यः, आगस्त्यौ, अगस्तयः । प्रत्ययलपं कृत्वादेशकरणमगस्तीनामिमे आगस्तीया इत्येवमर्थम् । प्रत्ययान्तादेशे हि कृते अगस्तिशब्दस्यादेराकारस्याभावात् वृद्धिर्यस्य स्वरेष्वादिः' (६-१-८) इति दूसंज्ञा न स्यात्, तदभावे च तन्निमित्तो 'दोरीयः' (६-३-३१) इतीयः प्रत्ययोऽपि न स्यात्, यदा तु प्रत्ययस्य लुब् विधीयते तदा स्वरादावीय प्रत्यये भाविनि 'न प्राजितीये स्वरे' (६-१-१३५) इति प्रतिषेधात् प्रत्ययस्य लुब् न भवति, तथा च सति दुसंज्ञत्वात् ईयः सिद्धो भवति । कुण्डिन्यामविशेषः, प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् 'तस्येदम' (६-३-१५९) इत्यणा भवितव्यम् । प्रत्ययस्य तु लुपि न प्राजितीये स्वरे' (६-१-१३५) इति लप्प्रतिषेधे सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः शकलादित्वादव स्यात् अतो न विशेषः । अस्त्रियामित्येव ? कौण्डिन्यः. आगस्त्यः स्त्रियः ।१२७। न्या० स० कौण्डिन्या-यात्रौ न संभवत इति तेनास्याण एव लुबित्यर्थः
कण्डिन्यामविशेष इति ईयप्रत्ययापेक्षमिदमुक्तं अविशेष इति न प्रत्ययान्तरे, यतः प्रत्ययलोपेऽपि हि 'न प्रागजितीये' ६-१-१३५ इति लोपनिषेधे यजन्तात् कुण्डिनानामयं संवादिः इति विवक्षायामण भवति, तथा च कौण्डिनमिति भवति, सप्रत्ययादेशे हि अयजन्तात 'गोत्राददण्ड' ६-३-१६९ इत्यकञ् स्यात् तदा कौण्डिनकमिति भवत्यतो विशेषः ।