________________
[पाद. १. सू. १४०-१४१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [५९ त्रिदा दणित्रोः ॥ ६. १. १४०॥
जित् आर्षश्च योऽपत्यप्रत्ययस्तदन्तात्परस्य युवप्रत्ययस्य अण इञश्च लुप् भवति, वचनभेदाद्यथासंख्याभावः। त्रितः, तिकस्यापत्यं तैकायनिः, तिकादेरायनिञ् । तस्यापत्यमौत्सर्गिकोऽण, तस्य लुप् । तैकायनिः पिता, तैकायनिः पुत्र, बिदस्यापत्यं बंदः, बिदादित्वाद, तस्यापत्यम् 'अत' (६-१-३१) इतीञ्, तस्य लुप् । बैदः पिता, बैदः पुत्रः, कुरोरपत्यं कौरव्यः, 'कुर्वादेयः' (६-१-१००)। कौरव्यस्यापत्यम् ' अत इञ्' (६-१-३१) तस्य लप, कौरव्यः पिता, कौरव्यः पुत्रः, तिकादिषु औरशशब्दसाहचर्यात् कौरव्यशब्दः क्षत्रियगोत्रवृत्तिविज्ञायते अयं तु ब्राह्मणगोत्रवृत्तिरिति अत आयनिञ् न भवति । आर्षात् वासिष्ठः पिता, वासिष्ठः पुत्रः, वैश्वामित्रः पिता, वैश्वामित्रः पुत्रः, ऋष्यणन्तादिञ् तस्य लुप् । आत्रेयः पिता, आत्रेयः पुत्रः, 'इतोऽनिमः' (६-१-७२) इत्येयणन्तादिन, तस्य लुप् । जिदार्षादिति किम् ? औपगवः पिता, औपगविः पुत्रः, औत्सगिकारन्तादि । कौहडः पिताः, कौहडिः पुत्रः । शिवाद्यणन्तादि । अणिोरिति किम् ? दाक्षेरपत्यं दाक्षायणः ।१४०।
अब्राह्मणात् ॥ ६.१.१४१॥ __ अब्राह्मणवाचिनो वृद्धप्रत्ययान्ताधूनि विहितस्य प्रत्ययस्य लुप् भवति, अङ्गस्यापत्यमाङ्गः । 'पुरुमगध'-इत्यादिनाण् । तस्यापत्यं 'द्विस्वरादणः' (६-१-१८९) इत्यायनिञ्, तस्य लुप् । आङ्गः पिता, आङ्गः पुत्रः, एवं सौह्मः पिता, सौह्मः पुत्रः, मगधस्यापत्यं मागधः, 'पुरुमगध'(६-१-११६) इत्यादिनाण, तस्यापत्यम् अत इञ्' (६-१-३१) । तस्य लुप् । मागधः पिता, मागधः पुत्रः, एवं कालिङ्गः पिता, कालिङ्गः पुत्रः, शौरमसः पिता, शौरमसः पुत्रः, तथा नाकुल: पिता, नाकुलः पुत्रः, साहदेवः पिता, साहदेवः पुत्रः, वासुदेवः पिता, वासुदेवः पुत्रः, आनिरुद्धः पिता, आनिरुद्धः पुत्रः, रान्ध्रस: पिता, रान्ध्रसः पुत्रः, श्वाफल्कः पिता, श्वाफल्कः पुत्रः, एभ्यः 'ऋषिवृष्ण्यन्धक कुरुभ्यः' (६-१-६१) इत्यण, तत इनो लुप् । भाण्डींजाडियः (जडिधः) पिता, भाण्डोजाडियः पुत्रः, कार्णखारिः पिता, कार्णखारिः पुत्रः, मायूरिः पिता, मायूरिः पुत्रः, कापिञ्जलिः पिता, कापिञ्जलि: पुत्रः, अत्रात इजिती तत आयनणो लुप् । श्वशुर्यः पिता, श्वशुर्यः पुत्रः, कुलीनः पिता, कुलीनः पुत्रः, अत्रेनो लुप् । अब्राह्मणादिति किम् ? मार्ग्यः पिता, गाायणः पुत्रः ।१४१।