________________
बृहवृत्ति-लघुन्याससंवलिते [पाद. १ सू० ११९-१२२ ] न्या० स० दुनादि कुमारी नाम जनपद इति जनपदवाचकस्य गौरादित्वात् क्षत्रियावाचकात् 'जातेश्यान्त' २-४-५४ इति ङीः। क्षत्रिया चेति नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति न्यायात् क्षत्रियासरूपस्यापि ग्रहः । पाण्डोड्यण् ॥ ६. १. ११९ ॥
पाण्डुशब्दाद्राष्ट्रक्षस्त्रियवाचिनः सरूपाद्यथासंख्यं राजन्यपत्ये चार्थे डचण प्रत्ययो भवति स च द्रिसंज्ञः। पाण्डूनां राजा पाण्डोरपत्यं वा पाण्डयः, पाण्डयौ, पाण्डवः । कथं पाण्डवाः यस्य दासाः ? तस्य क्षत्रियस्य राष्ट्र सरूपस्य य ईश्यो जनपदो यश्च तस्य क्षत्रियसरूपस्य राष्ट्रस्येशिता क्षत्रियः स एक गाते प्रत्यासत्तेः, अत्र तु कुरवो जनपदस्तस्य राजा पाण्डुरिति शिवाद्यण् भवति, डकारोऽत्यस्वरादिलोपार्थः । णकारो वृद्धिनिमित्तवद्भावप्रतिषेधार्थः । पाण्ड्याभार्यः ।११९॥
__ न्या० स० पाण्डोर्यण्-प्रत्यासत्तेरिति अयमर्थः यदि राष्ट्रक्षत्रिययोरेकशब्द-वाच्यता भवति तदानीं ड्यण् भवति । शकादिभ्यो द्रेलुप् ॥ ६. १. १२० ॥
शक इत्येवमादिभ्यः परस्य द्रेः प्रत्ययस्य लुप् भवति । शकानां राजा शकस्यापत्यं वा शकः, यवनः, जर्तः, कम्बोजः, चोलः, केरलः, आधारयः, विधारयः, उपधारयः, अपधारयः, मुरलः, खसः । शकादयः प्रयोगगम्याः । १२०॥
न्या० स० शकादिभ्यो-यवनादिषु यथायोग्यं 'राष्ट्रक्षत्रियात्' ६-१-११४ इत्यनेन 'पुरुमगध' ६-१-११६ इत्यनेन चाचणी, आधारय इत्यत्र ‘दुनादि' ६-१-११८ व्यः । कुन्त्यवन्तेः स्त्रियाम् ॥ ६. १. १२१ ॥
कुन्ति अवन्ति इत्येताभ्यां परस्य द्रेय॑स्य लुप् भवति नियामभिधेयायाम् । कुन्तेरपत्यं स्त्री कुन्ती, एवमवन्ती। स्त्रियामिति किम् ? कौन्त्यः, आवन्त्यः । प्रकृतस्य द्रेलु विज्ञानात् स्वार्थिकस्य ज्यटोऽद्रिसंज्ञकस्य न भवति, कौन्ती ।१२।।
न्या० स० कुन्त्यवन्तेः अद्रिसंज्ञकस्य न भवतीति प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव ग्रहणमिति न्यायात् । कौन्तीति-कुन्तेरपत्यानि बहवो माणवकाः ‘दुनादि' ६-१-११८ इति व्यः । 'बहुष्वस्त्रियां' ६-१-१२४ लुक् । ते शस्त्रजीविसंघः स्त्रीत्वविशिष्टो विवक्षितः, 'पूगादमुख्यकाब्यो द्रिः' ७-३-६० इत्यधिकारे 'शस्त्रजीविसंघात् ' ७-३-६२ इति ज्यद, यद्वा कुन्तेरपत्यं बहवो माणवकास्ते शस्त्रजीविसंघः स्त्रीत्वविशिष्टो विवक्षितः, 'दुनादि' ६-१-११८ अनेन लुप् । 'नुर्जातेः' २-४-७२ ङीः, ततः शस्त्रजीविसंघायद, 'अवर्णेवर्णस्य' ७-४-६८ 'अणय' २-४-२० इति ङीः, 'अस्य ड्याम्' २-४-८६ 'व्यञ्जनात्तद्धितस्य' २-४-८८ इति य लोपः ।