________________
[ पाद. १. सू. ११७-११८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ४५ राजन्यपत्ये च इञ् प्रत्ययो भवति स च द्रिसंज्ञः । उदुम्बराणां राजा उदुम्बरस्यापत्यं वा औदुम्बरिः, उदुम्बराः, एवं तैलखलिः, तिलखलाः, माद्रकारिः, मद्रकारा, यौगन्धरिः, युगन्धराः, भौलिङ्गिः, भुलिङ्गाः, शारदण्डिः, शरदण्डाः, आजमीडिः अजमीढाः, आजकुन्दिः, अजकुन्दाः, बौधिः, बुधाः इति साल्वांशाः । प्रात्यग्रथिः, प्रत्यग्रथाः, कालकूटिः, कलकूटाः, आश्मकिः अश्मकाः, सर्वत्र बहुषु लुप् । उदुम्बरास्तिलखला मद्रकारा युगंधराः ।। भुलिङ्गाः शरदण्डाश्च साल्वांशा इति कीर्तिताः ।।१।। अजमोढाजकुन्दबुधास्तूदुम्बरादिविशेषाः, तेऽपि साल्वांशा एव । प्रत्य ग्रथादिग्रहणमसाल्वांशार्थम् । ११७॥
न्या० स० साल्वा-उदुम्बरा इति उन्दन्ति आर्दीभवन्ति ऋद्ध्या' तीवर' ४४४ (उणादि) इति, यद्वा उल्लछिताम्बराः प्रासादैः ‘पृषोदर' ३-२-१५५ इत्यादिना निपातः ।।
तिलखला इति तिला एव खला यज प्रचुरत्वात् , तिलाः खल्यन्ते यत्र 'गोचर' ५-३-१३१ इति निपातः, तिलैः खलन्ति संचिता भवन्ति वा।
मद्रकारा इति मद्रं कुर्वन्ति 'क्षेमप्रिय' ५-१-१०५ इति अण् , युगं धारयति ‘धारेर्धर्च' ५-१-११३ खः।
भुलिगा इति लभेरिदुतौ चातः । शरदण्डा इति शरैः दण्डयन्ति । अजमीढा इति अजैमिह्यन्ते स्म क्तः ‘कारकं कृता' ३-१-६८ सः। अजगुदा इति अजा एव गुदा यत्र । बौधिरिति बुध्यन्ते इति 'नाम्युपान्त्य' ५-१-५४ इति कः । प्रात्यथिरिति-प्रत्ययः रथो यस्य । कालकूटिरित्ति कूटयन्ति अच् , कल्पप्रधानाः कूटाः, आश्मकिरिति अश्मनः कायन्ति 'आतो ड' ५-१-७६ इति ङ । तेऽपि साल्वांशा एवेति अवयवावयवोप्यवयविनोऽवयव एव । दुनादिकुर्वित्कोशलाजादा ज्यः ॥ ६. १. ११८ ॥
दूसंज्ञकेभ्यो नकारादिभ्यः कुरुशब्दादिकारान्तेभ्यः कोशल अजाद इत्येताभ्यां च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च ज्यः प्रत्ययो भवति स च द्रिसंज्ञः । दुष्ठा, आम्बष्ठानां राजा आम्बष्ठस्यापत्यं वा माम्बष्ठयः, आम्बष्ठाः, सौवीराणां सौवीरस्य वा सौवीर्यः, सौवीराः, एवं काम्बव्यः, काम्बवाः, दार्व्यः, दार्वाः। द्विस्वरलक्षणोऽण् परत्वादनेन बाध्यते । नादि, मिषधानां निषधस्य वा नैषध्यः, निषधाः, नेचक्यः, निचकाः, नेप्यः,नीपाः, कुरूणां कुरोर्वा कौरव्यः, कुरवः, इत्, अवन्तीनामवन्तेर्वा आवन्त्यः, अवन्तयः, कौन्त्यः, कुन्तयः, वासात्यः, वसातयः, चैद्यः, चेदयः, काश्यः, काशयः, कोशलानां कोशलस्य वा कौशल्यः, कोशलाः, अजादानामजादस्य वा आजाधः, अजादाः एभ्य इति किम् ? कुमारी नाम जनपदः क्षत्रिया च ततो राजन्यपत्ये वाव भवति, कौमारः ।११८०