________________
४४]
बृहदृत्ति-लघुन्याससंवलिते [पा० १. सू० ११६-११७ ] ज्यस्यापवादः, वचनभेदो यथासंख्यनिवृत्त्यर्थः, गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं च गान्धारः, गान्धारो, गान्धारयः, बहुष्वत्रो लुप् । एवं साल्वेयः, साल्वेयौ, साल्वेयाः । एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायामब्राह्मणादिति लुप् न भवति विधानसामर्थ्यात् । अन्यथा ञ्यविधावेवानयोः प्रतिषेधः क्रियेत । तथा पूर्वेणैवाञ् सिध्यति । ५। __न्या० स० गान्धारि-इनेयणन्तौ सरूपाविति गन्धमियर्त्ति अणु, तस्यापत्यमिञ्, साल्वाया अपत्यं, 'द्विस्वरादनद्याः' ६-१-७१ अपत्यप्रत्ययान्तावप्युपचाराद् राष्ट्रे वर्तते। विधानसामर्थ्यादिति ननु गान्धार इत्यत्र लुबभावे फलमस्ति यतो लुप्ते गान्धारिरिति स्यात, स्थिते तु गान्धारः साल्वेय इत्यत्र तु किं फलम् ? उच्यते, अत्रालुपि संघादिविवक्षायामण् लुपि तु 'गोत्राददण्ड' ६-३-१६९ इत्यकञ् स्यात् ।
ननु दुलक्षणभ्यस्य बाधनेन विधानामिदं चरितार्थमिति कुतो विधानसामर्थ्यादित्युक्तम् ? इत्याह-अन्यथा ज्यविधाविति ।
अगान्धारिसाल्वेयदुनादिकुर्वित्कोशलाजादाञ्य इत्यनया युक्त्या प्रतिषेधे कृते राष्ट्रक्षत्रियादित्यनेनाञ् भविष्यतीत्यर्थः । पुरुमगधकलिङ्गशूरमसदिस्वरादण् ॥ ६. १. ११६ ॥
पुरुमगधकलिङ्गशूरमस इत्येतेभ्यो द्विस्वरेभ्यश्च शब्देभ्यो राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्य पत्ये चार्थे दिरण् भवति, अञोऽपवादः । पुरोरपत्यं पौरवः, पौरवौः, पुरवः, मगधानां राजा मगधस्यापत्यं वा मागधः, मागधौ, मगधाः, एवं कालिङ्गः, कालिङ्गौ, कलिङ्गाः, शौरमस: शौरमसौ, शूरमसाः, द्विस्वर, अङ्गानां राजा अङ्गस्यापत्यं वा आङ्गः, अङ्गाः, वाङ्गः, वङ्गाः, सौह्मः, सुह्माः, पौण्ड्रः, पुण्ड्राः, दारदः, दरदः, भार्गः भर्गाः, साल्वः, साल्वाः । सर्वत्र बहुषु लुप्, पुरुग्रहणमराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम न तु राष्ट्रम्, तस्योत्सर्गिकेणैवाणा सिद्धे बहुषु लबर्थमिदमविधानम् । अव सिद्धेऽविधानं संघाद्यण बाधनार्थम् । तेनाका भवति, पौरवकम् मागधकम्, कालिङ्गकम्, शौरमसकम्, आङ्गकम्, वाङ्गकम् । अनन्ताद्धि गोत्रात् 'अञ्य जिनः' (६-३-१७२) इत्यण् बाधकः स्यात् । ११६।
न्या० स० पुरु-पौरवकमिति पुरोरपत्यानि अण् लुप्, पुरूणां संघादि 'गोत्राददण्ड' ६-३-१६९ इत्यकलविषये 'न प्राजितीये' ६-१-१३५ इति अणो लुप् निवर्तते । साल्वांशप्रत्यग्रथकलकूटाश्मकादिश् ॥ ६. १. ११७ ॥
साल्वा नाम जनपदस्तदंशास्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथकल. कटाश्मक इत्येतेभ्यश्च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्य श्च सरूपेभ्यो यथासंख्यं