________________
[ पाद १. सू० ११३-११५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [ ४३
नकारस्य लोपार्थमिति अन्त्यस्वरादेर्लोप इति वक्तव्येऽपि विशेषाभावान्नकारस्य लोपार्थमित्युक्तमिति शकटः ।
परादिरेवेति कश्चादिरित्येव क्रियतां किं कश्चान्तोऽन्त्यस्वरादिति गुरुणा सूत्रेण, ततश्च 'नाम सिदव्यञ्जने' १-१-२१ इति पदसंज्ञायां 'नाम्नोनोनह्नः' २-२-९१ इत्यनेनैव नलोपो भविष्यति ।
अदोरायनिः प्रायः ॥ ६. १. ११३ ॥
__ अदुसंज्ञकादपत्ये आयनिः प्रत्ययो वा भवति प्रायः । ग्लुचकायनि:, ग्लौचुकिः, म्लुचुकायनिः, म्लौचुकिः, अहिचुम्बकायनिः । आहिचुम्बकिः, त्रिपृष्टायनिः, त्रैपृष्टिः, श्री विजयायनिः, श्रेविजयिः । अदोरिति किम ? औपगविः, रामदत्तिः, रामदत्तायनिः पिता, रामदत्तायनिः पुत्रः। आयनिजन्तादणो लुप् । प्रायोग्रहणात्कचिन्न भवति । दाक्षिः, प्लाक्षिः ।११३।
न्या स० अदो-रामदत्तायनिः पुत्र इति वृद्धं रामदत्तस्यापत्यं 'अवृद्धाहोर्नवा' ६-१-१०२ इत्यायनि, ततो युवार्थे ङसोऽणो लुप् । राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥ ६. १. ११४ ॥
क्षत्रियवाचिसरूपाद्राष्ट्रवाचिनो राष्ट्रवाचिसरूपाच्च क्षत्रियवाचिनो यथासंख्यं राजनि क्षत्रियेऽपत्ये चाञ् प्रत्ययो भवति स च द्रिसंज्ञः, वेति निवृत्तम् । विदेहानां राष्ट्रस्य राजा वैदेहः वैदेही, विदेहाः, बहुत्वे 'बहुष्वस्त्रियाम् ' ( ६-१-१२४ ) इति लुप् । विदेहस्य राज्ञोऽपत्यं वैदेहः, वैदेही, विदेहाः, एवम् ऐक्ष्वाकः, ऐक्ष्वाको, इक्ष्वाकवः, पाञ्चालः, पाञ्चाली, पञ्चालाः । राष्ट्रक्षत्रियादिति किम् ? पञ्चालस्य ब्राह्मणस्य राजा पाञ्चाल:, 'तस्येदम्' (६-६-१५९) इत्यण् । पञ्चालस्य ब्राह्मणस्यापत्यं पाञ्चालि: । सरूपादिति किम् ? सुराष्ट्राणां राजा सौराष्ट्रकः, मादर्शस्य राष्ट्रस्य राजा आदर्शकः, दशरथस्य क्षत्रियस्यापत्यं दाशरथिः, त्रिपृष्टस्य पृष्टिः, द्रिप्रदेशाः 'द्रेरणोऽप्राच्यभर्गादेः' (६-१-१२३) इत्यादयः ।११४। ___ न्या० स० राष्ट्र-वेति निवृत्तमिति अपत्येऽनुवर्तमाने राजनीत्यधिकार्थस्य भणनात् । ऐक्ष्वाक इति 'सारवैश्वाक' ७-४-३० इति उलोपः । ___ पञ्चालस्य ब्राह्मणस्य राजा पाञ्चाल इति-'उत्सादेः' ६-१-१९ इत्यप्पञ् न तत्रापि राष्ट्रस्वरूपग्रहणात् । गान्धारिसाल्वेयाभ्याम् ॥ ६. १. ११५॥
गान्धारिसाल्वेयशब्दौ इयणन्तौ सरूपी राष्ट्रक्षत्रियवचनी, ताभ्यां राष्ट्राद्राजनि क्षत्रियादपत्ये अञ् प्रत्ययो भवति स च द्रिसंज्ञः । दुलक्षणस्य