________________
४२ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. १ सू० ११०-११२ ] अवृद्धादोनवा ॥ ६. १. ११०॥
अवृद्धवाचिनो दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । आम्रगुप्तायनिः, आम्रगुप्तिः, शालगुप्तायनिः, शालगुप्तिः, वायुरथायनिः, वायुरथिः, पञ्चालानां राजा पाञ्चालस्तस्यापत्यं पाञ्चालायनिः, पाञ्चालिः, नापितस्यापत्यं नापितायनिः, नापित्यः, पक्षे नापितशब्दस्यञ् नास्ति तद्धाधनार्थं हि कुर्वादिषु तस्य पाठः। अवृद्धादिति किम् ? दाक्षेः दाक्षायणः, प्लाक्षेः प्लाक्षायणः । दोरिति किम् ? अकम्पनस्यापत्यमाकम्पनिः ।११०। पुत्रान्तात् ॥ ६. १. १११ ॥
पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । गार्गीपुत्रायाणिः, गार्गीपुत्रिः, वासवदत्तापुत्रायणिः, वासवदत्तापुत्रिः । पूर्वेणायनिजि सिद्धे वचनमिदमुत्तरसूत्रप्राप्तकागमाभावार्थम् । उत्तरेण च कागमोऽपि, एवं च गार्गीपुत्रकायणिरिति तार्तीयीकमपि रूपं भवति ।१११॥ चर्मिवर्मिगारेटकार्कटयकाकलङ्कावाकिनाच्च कश्चान्तोऽन्त्यस्वरात्
चमिन् वमिन् गारेट कार्कटथ काक लङ्गा वाकिन इत्येतेभ्यः पुत्रान्ताच्च दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति तत्संनियोगे चैषामन्त्यस्वरात्परः ककारोऽन्तो भवति । चार्मिकायणिः, चार्मिणः, वामिकायणिः, वामिणः । 'संयोगादिनः' (७-४-५३) इति प्रतिषेधादणि अन्त्यस्वदादिलोपो न भवति । गारेटकायनिः, गारेटिः, कर्कटस्यापत्यं कार्कटयः, तस्यापत्यं कार्कटयकायनिः, कार्कटयायनः । यदा त्वव्युत्पन्नः कार्कटथशब्दस्तदा पक्षे इव । कार्कट्टियः, काककायनिः, काकिः, लाङ्का, लाङ्ककायनि, लाङ्केय:, लङ्कशब्द केचिदकारान्तमिच्छन्ति, तन्मते लाङ्ककायनिः । लाङ्किः, वाकिनकायनि:, वाकिनि:, पुत्रान्तादोः, गार्गीपुत्रकायणिः, गार्गीपुत्रिः। ककारस्यान्त्यस्वरात्परतो बिधानं चमिमिणोः नकारस्य लोपार्थम् । यद्येवं परादिरेव क्रियेत । नैवम, तथा सति प्रत्ययस्य व्यञ्जनादित्वात्पुवद्भावो न सिध्येत् । चमिण्या अपत्यं चार्मिकायणिः, वर्मिण्या अपत्यं वार्मिकायणिः ।११२।
न्या० स० चमिवर्मिगारे-अन्तग्रहणाभावे कस्य प्रत्ययत्वं स्यात्, ततश्च लाककायनिरित्यत्र 'यादीदतः' २-४-१०४ इति इस्वत्वं स्यात् । अत एव च 'अनन्तः पञ्चम्याः प्रत्ययः' १-१-३८ इत्यत्रान्तग्रहणं सफलम् ।