________________
[पाद. १. सू. १०८-११० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [४१ उरश, शाटय, सैन्धव, यमुन्द, रूप्य, पूर्णिक, ग्राम्य, नील, अमित्र, गोकक्ष्य, कुरु, देवर, देवर, धेवर, धैवर, देवरथ, तैतिल, शैलाल, औरश, कौरव्य, भौरिकि, भौलिकि, चौपयत, चैतयत, चैटयत, शैकयत, क्षतयत, ध्वाज, वत, ध्वाजवत, चन्द्रमस्, शुभ, श्रुभ, गङ्ग, गङ्गा, वरेण्यः वन्ध्या, बिम्बा, अरुद्ध, आरद्धा, आरद्ध, वह्य का, खल्य, लोभका, उदन्य, यज्ञ, नीड, आरथ्य, लङ्कव, भीत, उतथ्य, सुयामन्, उखा, खल्वका, शल्यका, जाजल, वसु, उरस्, इति तिकादिः । शाठयशब्दो यजन्तो घ्यणन्तो वा। शाट्यायनिः, यान्तादायनणेवेत्येके शाटथायनः । औरशशब्देन क्षत्रिय प्रत्ययान्तेन साहचर्यात् कौरव्यशब्दः क्षत्रियप्रत्ययान्त एव गृह्यते । अन्यस्मादिअव । तस्य च 'बिदार्षादणिोः ' (६-१-१४०) इति लुप् । कौरव्यः पिता, कौरव्यः पुत्रः । आयनिअस्तु 'अब्राह्मणात्' (६-१-१४१) इति प्राप्तापि लुप न भवति विधानसामर्थ्यात् नहीन आयनिनो वा लुपि कश्चिद्विशेषः । कौरव्यः पिता, कौरव्यायणिः पुत्रः ।१०७। ___ न्या० स० तिका-सैन्घवेति सिन्धुषु भवः 'कोपान्त्याचा' ६-३-५६-नृनृस्थाभ्यामन्यः, नरि नृस्थे तु विशेषविधानात् कच्छादित्वादकञ् स्यात् । सिन्धुराभिजनो निवासोऽस्य 'सिन्ध्वादेरञ्। ६-३-२१६ वा । शादयायनिरिति शट रुजा० अच् तस्यापत्यं वृद्धं 'गर्गादेर्य' ६-१-४२ विधानसामर्थ्यादिति लुपि हि अक्षत्रियवचनस्य कौरव्यशब्दस्य परिहारे फलं न
स्यात् ।
दगुकोशलकारच्छागवृषाद्यादिः ॥ ६. १. १०८॥ ___ दग, कोशल, कर्मार, छाग, वृष इत्येतेभ्योऽपत्ये यकारादिरायनित्र प्रत्ययो भवति । दागव्यायनिः, कौशल्यायनिः । जनपदसमानशब्दात् क्षत्त्रियात् 'दूनादि'-(६-१-११८ ) इत्यादिना ज्य एव । कौशल्य इति । कार्यायणिः, छाग्यायनिः, वार्ष्यायणिः ।१०८। दिस्वरादणः ॥ ६. १. १०९ ॥
द्विस्वरादणन्तादपत्ये आयनिञ् प्रत्ययो भवति । कर्तु रपत्यं कात्रः, तस्य का यणिः, हर्तुः हात्रः, तस्य हा यणिः । पौत्रः, पौत्रायणिः । औत्सगिकोऽण यास्कायनिः, शिवाद्यण् । द्विस्वरादिति किम् ? औपगविः । अण इति किम् ? दाक्षेः दाक्षायणः, प्लाक्षेः प्लाक्षायणः, वृद्धादेवायं विधिः । अवृद्धातत्तरेण विकल्प एव, अङ्गानां राजा आङ्गः । तस्याङ्गिः आङ्गायनिर्वा ।१०९।
न्या० स० द्विस्वरादणः का यणिरिति ब्राह्मणत्वात् 'अब्राह्मणात्' ६-१-१४१ इति न लुप्, एवमुत्तरेष्वपि ।