________________
४०
बृहवृत्ति-लघुन्याससंवलिते [पाद. १. सू० १०५-१०७ सौवीरगोत्रः पाण्टाहृतः पाण्टाहृतायनिर्वा। मिमतस्य मैमतः मैमतायनिर्वा । सौवीरेष्वित्येव ? पाण्टाहृतायनः । 'यनिजः' ( ६-१-५४) इत्यायनण् । मैमतायनः। अत्र नेडादित्वात् । अनन्तरो मैमतिः । १०४ ।
न्या० स०-पाण्टाहृतिमिमता -पण्टेन आहृतः फाण्टेन अनायाससाध्येनेति तु शाकटायनः, भाष्यकारस्तु यथासंख्यं मन्यते, ततो णित्वस्य प्रयोजनं पान्टाहृतामार्य इत्यत्र पुंवन्निषेधः । मीयते परिच्छिद्यते ऋषित्वेन 'पुतपित्त' २०४ ( उणादि) इति, मया लक्ष्म्या मन्यते स्म पृषोदरादित्वाद् वा। भागवित्तितार्णबिन्दवाकशापेयान्निन्दायामिकण्वा ॥ ६. १.१०५॥
भागवित्ति ताणबिन्दव आकशापेय इत्येतेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये इकण् प्रत्यया वा भवति निन्दायां गम्यमानायाम् । भागवित्तरपत्यं युवा निन्दितः भागवित्तिकः भागवित्तायनो वा जाल्मः, तार्णबिन्दविकः तार्णबिन्दविर्वा । आकशापेयिकः आकशापेयि । निन्दायामिति किम ? अन्यत्र भागवितायनः तार्णबिन्दविः आकशापेयिः इत्येव भवति ।१०॥
न्या० स० भाग-आकशापेयिक इति अकं दुःखं शपति अण् अकशापस्यापत्यं वृद्धं शुभ्रादिभ्य एयण् । सौयामायनियामुन्दायनिवार्ष्यायणेरीयश्च वा ।। ६. १. १०६ ॥
एभ्य आयनिअन्तेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये ईयश्चकारादिकण् च प्रत्ययो वा भवति ताभ्यां मुक्तेऽण् प्रत्ययः निन्दायां गम्यमानायाम् । सुयानोऽपत्यं सौयामायनिस्तस्यापत्यं युवा निन्दितः सौयामायनीयः, सोयामायनिकः, सौयामायनिर्वा। अणो लुप् । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वादायनि, तस्यापत्यं युवा निन्दितः यामुन्दायनीयः, यामुन्दायनिकः, यामुन्दायनिर्वा। वषस्यापत्यं वार्ष्यायणिः। दगुकोसलादिसूत्रेण यकारादिरायनित्र। तस्य वार्ष्यायणीयः । वार्ष्यायगिकः । वार्ष्यायाणिर्वा । कश्चित्त्वन्येभ्योऽपीच्छति, तैकायनेरपत्यं युवा तैकायनीयः। निन्दायामित्येव ? अन्यत्र सौयामायंनिः यामुन्दायनिः वार्ष्यायणियुवा । अणेव । 'जिदा दणिोः ' (६-१-१४०) इति तस्य लुप् ।१०६। तिकादेरायनिञ् ॥ ६. १. १०७ ॥
तिक इत्येवमादिभ्योऽपत्ये आय निन् प्रत्ययो भवति । इबादेरपवादः । तेकायनिः । कैतवायनिः। तिक, कितव, संज्ञा, बाल, शिखा, बालशिख,