________________
लिङ्गानुशासनम्
[
33
जण्यशब्दः परीवादे कोलीने वाच्ये तल्पश्च पल्यत पुन्नपुसकः, जन्यः जन्यं परीवाद: ‘जन्यः स्याज्जनवादेऽपि' इत्यमरः । तल्पं तल्पः पर्यङ्कः, तपः शब्दो माघमासे, धर्मशब्द उष्णे शीतविरोधिनी, वत्सः हृदि पुनपुसकः, अयं तपा इदं तपः माघः धर्मः घर्ममुष्णः, वत्सः वत्स हत्, वटशब्दस्तुल्यतायां गोलके भक्ष्यविशेषे च वाच्ये पुनपुसकः। वट: वटं तुल्यता गोलक: भक्ष्यविशेषः, न्यग्रोवे रज्जौ च त्रिलिङ गः, भक्ष्ये स्वाथिके केऽपि वटक: वटक, न्यग्रोधफले फलनामत्वान्नपुसकं, वर्णशब्द: सितादौ स्वरादौ च वाच्ये पुनपुसकः, वर्णः वर्ण सितकृष्णादि रूपं स्वराद्यक्षरं च, अन्यत्र तु णान्तत्वात्पुस्येव, विलेपनेऽप्येके. रणे युद्धे वाच्ये संपरायः पुनपुंसकः. संपराय: संपरायं रणम् ।। ३ ।।
सैन्धवो लवणे भूतः प्रेते तमो विधुतुदे ।
स्वदायौ कस्वरे कृच्छ, व्रते शुक्रोऽग्निमासयोः ॥ ४ ॥ लवणे वाच्ये सैन्धवः पुनपुसकः, सैन्धवः सैन्धवं लवण, प्रेते वाच्ये भूतः पुनपुसकः, भूतः भूतं प्रेतः अन्यत्र तु पृथिव्यादौ प्राणिनि च क्लीबः, विधुतुदे राही वाच्ये तमः शब्दः पुनपुसकलिङ्गः। अयं तमा इदं तमो सहुः, स्वदायशब्दौ कस्वरे धने वाच्ये पुनपुसकौ, स्वः स्वं कस्वरम्, अन्यत्र स्वः अात्मा स्वभावो ज्ञातिश्च, प्रतिपदपाठात् पुस्त्वमेव । दाय: दायं धनम्, कृच्छशब्दो व्रते वाच्ये पुनपुसकः, कृच्छ्रः कृच्छ्र सान्तपनादि व्रतं, अग्नौ ज्येष्ठमासे च शुक्रः शब्दः पुनपुसकः, शुक्र शुक्रमग्नियेष्ठमासश्च ।। ४ ।।
कर्पूरस्वर्णयोश्चन्द्र, उडावृक्षं छदे दलः ।
धर्मः स्वभावे रुचको भूषाभिन्मातुलिङ गयोः ॥ ५ ॥ कर्पू रे स्वर्णं च वाच्ये चन्द्रशब्द: पुनपुसकः । चन्द्रः चन्द्रं कर्पूर स्वर्णं च, उडौ नक्षत्रे वाच्ये ऋक्षशब्दः पुनपुसकः, ऋक्षः ऋक्षं भम्, छदे पणे वाच्ये दल शब्दः पुनपुसकः दल : दलं छदः, स्वभावे स्वरूपे वाच्ये धर्मशब्दः पुनपुसकः, धर्मः धर्म स्वभावः अन्यत्र तु पुण्योपाये क्लोबत्वमुक्त, अन्यत्र तु पुलिङ ग एव । भूषाभिदि ग्रेवेयके मातुलिङगे च बाजपूरे वाच्ये रुचकः पुनपुसकः, रुचकः रुचकं ग्रैवेयकं बीजपूरं च, सौवर्चले चन्दनपेषण्यां शिलायां च क्लीबः ।। ५ ।।
पाताले वाडवो वः, सीस आमलकः फले ।
पिटजङ गलसत्वानि, पिटकामांसजन्तुषु ॥ ६ ॥ पाताले वाच्ये वाडवशब्दः पुनपुसकः, वाडवः वाडवं पातालं, वर्धः सीसे सीसके वाच्ये, फले वाच्ये प्रामलक: पुनपुसकः, पामलकः पामलकम् फलं, पिटकाख्ये भाजनविशेषे मांसे जन्तौ च यथासंख्यं पिटजङ गलसत्वाः पुनपुसकाः । पिट: पिट पिटका, अन्यत्र छदौं