________________
32 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
हन्वाखू ककन्धुः सिन्धुर्मृत्युमन्वावट्वेर्वारुः । उरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधूरागौर्भाः ॥ १२ ॥
॥ इति स्त्रीपुंसलिङ्गम् ॥ अयमियं हनुः कपोलयोरधोवर्ती मुखावयवः । अयमियमाखुः मूषिकः । अयमियं कर्कन्धुः बदरी। अयमियं सिन्धुः सरिदर्णवश्च । अयमियं मृत्युः प्राणवियोगः । अयमियं मनुः प्रजापतिः, अयमियमवटुः कृकाटिका, अयमियमेर्वारुः चिर्भटः उपलक्षणत्वादीर्वारुरपि, स्वाथिके तु के प्रकृतिलिङ गबाधया एर्वारुकमपि, अयमियमूरुः सक्थि, अयमियं कन्दुः स्वेदनिका, अयमियं काकुः ध्वनिविकारः, अयमियं-'किष्कुः हस्ते वितस्तौ च, प्रकोष्ठ वा नपुसकम् ।' अयमियं बाहुः हस्तः, अयमियं गवेधुः तृणधान्यविशेषः, अयमियं रा द्रव्यं, `अयमियं गौः, अयमियं भाः गौ अयमियं कान्तिः प्रभावश्च. अन्यत्र प्रभायामपि भाः शब्दः सन्तः पुलिङ ग एव चेत्याह ।। १२ ।।
इति स्त्रीपुसलिङ गाव वृरिः । पुनपुंसकलिङ गोऽब्जः शङखे पद्मोऽब्जसंख्ययोः ।
कंसोऽसि कशो बहिर्वालो ह्रीवेरकेशयोः ॥ १॥ शङखे वाच्येऽब्जशब्दः पुनपुसकलिङ्ग., अब्जः अब्जं शंख:, यदुक्तम्-'अब्जो धन्वन्तरी चन्द्रे, शंखे स्त्रीक्लीबमम्बुजे' अब्जे संख्याविशेषे च पद्मः पुनपुसकं, पद्मः पद्ममब्जं संख्याविशेषश्च. पद्मकादावपीत्यन्ये । अपुसि नरादन्यत्रार्थे कंसशब्दः पुनपुसकः, कंसः कसं मानविशेषः पानपात्रं कांस्यं च, कुशशब्दः पुनपुसको बहिर्दर्भश्चेद्वाच्यः, कुशः कुशं दर्भः, रामसुते तु देहिनामत्वाद्योक्त्रद्वीपान्तरयोस्तु प्रतिपदपाठात् पुसि, अपरोऽप्यर्थः । बहिः शब्दः पुनपुसकः कुशो दर्भश्चेद् वाच्यो भवति, अयमिदं वा बहि. कुशः, ह्रीबेरे केशे च वाच्ये वालशब्दः, वाल: वालं ह्रीबेरं केशश्च, करिवालधिः प्रतिपदपाठात् पुसि ।। १ ।।
द्वापरः संशये छेदे पिष्पलो विष्टरस्तरौ ।
अब्दो वर्षे दरस्त्रासे कुकलस्तुषपावके ॥ २॥ संशये संदेहे वाच्ये द्वापरशब्द: पुनपुसकः, द्वापरः द्वापर संशयः, अन्यत्र तु यथाप्राप्तं, द्वापर युगविशेषः प्रतिपदपाठात् नपुसकः । छिद्यतेऽनेनेति च्छेदो वस्त्रोपकरणं, तस्मिन् वाच्ये पिष्पल: पुनपुसकः, पिष्पल: पिष्पलं वस्त्रच्छेदोपकरणम् । तरोरन्यत्रार्थे विष्टरः पुनपुसकः, विष्टरः विष्टरं आसनं बर्हिमुष्टिश्च, अब्द: अब्दं वर्ष, दरो दरं भयं, कन्दरे तु त्रिलिङ गः, ईषदर्थे त्वव्ययं देश्यपदं वा, यथा-'दरदलितहरिद्रापिखराण्यङ गकानि ।' तुषपावके तुषाग्नौ वाच्ये कुकूलः पुनपुसकः, कुकूलः कुकूलं तुषपावकः, अन्यत्र तु लान्तत्वान्नपुसकं, कुकूलं शंकुमान् गर्तः ।। २ ।।
परीवादपर्यङ्कयोर्जन्यतल्पौ, तपोधर्मवत्सानि माघोष्णहृत्सु। वटस्तुल्यतागोलभक्ष्येषु वर्णः, सितादिस्वराद्यो रणे संपरायः ॥ ३ ॥