________________
34 ]
श्री सिद्धहेमचन्द्रशब्दानुशासने
आकर्षफले च प्रतिपदपाठान्नपुंसकत्वम्, जङगलः जङगलं मांस, जङगलो निर्जले देशे त्रिलिङ्गः पिशितेऽस्त्रियां, सत्वः सत्वं जन्तुः, जन्तुविशेषोऽपि जन्तुः तेन पिशाचादावपि पुंनपुंसकत्वं उपलक्षणत्वाद गुणप्राणयोरपि, अन्यत्र तु क्लीबः ॥ ६ ॥
मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः ।
एकाद्रात्रः समाहारे, तथा सूतककूलकौ ।। ७ ।।
मध्यः,
सुरायां मृद्विकामद्ये तनौ च वाच्यायां मधुपिण्डशब्दौ पुंनपुंसकौ, अयं मधुः इदं मधु सुरा । अयं पिण्डः इदं पिण्डः तनुः, शेवालमध्ययोर्नाम नपुंसकम्, शेवालः शेवालम्, शेवलः शेवल मित्यादि । मध्यं मध्यमः, मध्यमं अवलग्नः अवलग्नं, विलग्नः विलग्नं इत्यादि । रात्र इति कृतसमासान्तो रात्रिशब्दो गृह्यते स एकशब्दात् परः पुरंनपुंसकः । समाहारार्थं वचनं एका चासौ रात्रिश्च एकराजः एकरात्रः एकरात्रं, समाहारे द्विगुसमाहारो द्वंद्वसमाहारश्च गृह्यते, तस्मिन् वर्तमानो यो रात्रशब्दः स नपुंसकः, द्वे रात्री समाहृते द्विरात्रः द्विरात्रम्, एवं त्रिरात्रः त्रिरात्रमित्यादि, द्वंद्वसमाहारे ग्रहश्च रात्रिश्च ग्रहोरात्रः अहोरात्रम् । समाहार इति किम् ? पूर्वो रात्रेरंशः पूर्वरात्र: । अथ कान्ताः १६ - सूतकः सूतकं पारद, कूलकः कूलकं स्तूपः ।। ७ ।।
वैनीतक भ्रमरको मरको वलीक
वल्मीकवल्कपुलकाः फरकव्यलीकौ ।
किंजल्क कल्कमरिक स्तबकावितङ्क
वर्चस्कचूचुकतडाकतटाकतङ्काः ।। ८ ।।
वैनीतकः वैनीतकं परंपरावाद्यं याप्ययानादि, भ्रमरकः भ्रमरकं ललाटस्थो - ऽलकः । मरकः मरकं बहुप्राणिमरणं, वलीकः वलीकं नोव्रं वल्मीकः वल्मीकं पिपीलिकादिकृतो मृतसंचयः, वल्कः वल्कं तरुत्वक्, पुलकः पुलकं रोमाञ्चः, फरक फरकं खेटकः, रलयोरैक्येन फलकमपि । व्यलीकः व्यलीकमप्रियमकार्यं च किञ्जल्क: किञ्जल्कं केसरम्, कल्क: कल्कं कषायः, तिलादेः खलश्च मणिक: मणिकमलिञ्जरः, स्तबकः स्तबकं गुच्छकः, वितङ्कः वितङ्कम् आरोग्यं वर्चस्कः वर्चस्कमवस्कर, चूचुकः चूचुकं कुचाग्रं, तडाकः तडाकं सरः, तटाकः तटाकं तदेव अर्थप्राधान्यात्तडागोऽपि, तङ्कः तङ्कम् प्रातङ्कः ।। ८ ।
बालकः फलकमालकालका, मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्, दुकानीकनिष्कचपका विशेषकः ॥ ६ ॥
बालकः २ परिहार्यमङ्गुलीयकं च फलकः फलं खेटकं । तदन्तत्वात्, शालिफलकोऽपि अष्टापदः, मालक : मालकं ग्रामान्तराटवी, अलकः अलकं चूर्णकुन्तल:, मूलक: मूलकं शाकविशेषः, तिलकः तिलकं पुण्ठ्, पङ्कः पङ्क कर्दमः पापं च पातकः पातकं पापं,