________________
[ पाद. १. सू. ६५-६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [२९
न्या० स० विक-वैकणिरन्य इति ऋषित्वेऽपि व्यावृत्तिबलात् 'अत इत्र' ६-१-३१ बाहादित्वाद् वा।
णश्व विश्रवसो विशलुक च वा ॥ ६. १. ६५॥
विश्रवसोऽपत्येऽण् प्रत्ययस्तत्संनियोगे णकारश्चान्तादेशो भवति संनियोगे विशशब्दलोपश्चास्य वा, विश्रवसोऽपत्यं वैश्रवणः। विश्लुकि तु रावणः, अण् सिद्ध एवादेशार्थं वचनम् । एवमुत्तरत्र ।।६।। संख्यासंभद्रान्मातुर्मातुर च ॥ ६. १. ६६ ॥
संख्यावाचिनः सम्भद्र इत्येताभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽण् प्रत्ययो भवति मातुश्च मातुर् इत्यादेशः । द्वयोर्मात्रोरपत्यं द्वैमातुरः, षाड्मातुरः । शतस्य माता शतमाता तस्यापत्यं शातमातुरो भरतः। संगता माता संमाता, तस्या अपत्यं मामातुरः भद्रायाः भद्रस्य वा माता भद्रमाता, तस्या अपत्यं भाद्रमातुरः, । 'संबन्धिनां संबन्धे' (७-४-१२१) इति वचनात् धान्यमातुर्न भवति, तेन द्वयोत्रिोरपत्यं द्वैमात्रः । अत्रादेशो न भवति । संख्यासंभद्रादिति किम् ? सौमात्रः, शुभ्रादिपाठाद्वैमात्रेयः ॥६६॥
न्या० स० संख्या-द्वैमात्र इति नन्वत्र णिति तद्धिते 'नामिनोऽलिहले: ' ४-३-५१ इत्यन्तस्य, यद्वाख्यात-कृत्प्रकरणमेकमेव तत्साहचयदित्र प्रकरणे यत्सूत्रं तद्विहितप्रत्ययो गृह्यते, अयं तु भिन्नप्रकरणविहितः । अदोनदीमानुषीनाम्नः ॥६. १. ६७॥
अदुसंज्ञकान्नदीनाम्नो मानुषीनाम्नश्चापत्येण प्रत्ययो भवति, एयणोऽपवादः यामुनः प्रणेतः, ऐरावतः उद्ध्यः, वैतस्त: पलाशः (ल)शिराः, नार्मदो नीलः, मानुषी, देवदत्तः। सौदर्शनः सौतारः, स्वायंप्रभः, चन्तितः, शैक्षितः । अदोरिति किम ? चान्द्रभागेयः, वासवदत्तेयः । नदीमानुषीग्रहणं किम् । सुपाः सुपर्णाया वापत्यं सौपर्णेयः, वैनतेयः । देव्यावेते इत्येके, पक्षिण्यावित्यन्ये । नामग्रहणं किम् ? शौभनेयः । शोभनाशब्दो नद्यां मानुष्यां च वर्तते न तु नामधेयत्वेन ।।६७॥ . न्या० स० अदोर्नवामानुषी-देवदत्त इति अदोरेवेति सावधारणव्याख्यानात या नित्यं दुसंज्ञा सैवात्र गृह्यते, न संज्ञा दुर्वा' ६-१-६ इति वैकल्पिको, तेन देवदत्त इत्यादि सिद्धं, अन्यथाऽत्र संदेहः स्यात् , अत एव व्यावृत्त्युदाहरणे नित्या दुसंज्ञा उदाहृता । चान्द्रभागेय इति चन्द्रभागी नाम नर्गो, ताभ्यां प्रभवति, अण् शोणादित्वात् वा झ्यामापि च चान्द्रभाग्याः । चान्द्रभागाया वाऽपत्यम् सुपर्णाय वेति गरुडमातुर्जातित्वमन्ये न मन्यन्ते इत्याप् ।