________________
२८ ]
बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ६१-६४ ] कु 'अव्ययस्य कोद् च' ७-३-३१ इत्यकि ककु कुत्सितं तिष्ठन्ति विपक्षा अस्मिन् स्थादिभ्यः के ककुस्थः । कं हयति क्विपि य्वृति दीर्धे कहूं याति 'क्वचित्' ५-१-१७१ इत्यनेन डे कहूयः । ऋषिवृष्ण्यन्धककुरुभ्यः ॥ ६. १.६१ ॥
ऋषयो लौकिका वसिष्ठादयः अपत्ययोगात् । वृष्णयः अन्धकाः । कुरवश्व प्रसिद्धा वंशाख्याः क्षत्रियाः। ऋष्यादिवचनेभ्यः शब्देभ्योऽपत्येऽण् प्रत्ययो भवति । इमोऽपवादः । ऋषि, वासिष्ठः, वैश्वामित्रः, गौतमः, वृष्णि वासुदेवः, आनिरुद्धः, वाघ्रः, प्रातिवाहनः, औदारः, अन्धक, श्वाफल्कः, रान्ध्रसः, चत्रकः, कुरु, नाकुलः, साहदेव:, दौःशासनः, दौर्योधनः । अत्र्यादिभ्यस्तु परत्वात् एयण् ञ्येत्रो च भवतः। आत्रेयः, जातसेन्यः जातसेनिः, औग्रसेन्यः, औग्रसेनिः, वैष्वक्सेन्यः, वेष्वक्सेनिः, भमसेन्यः, भैमसे निः। कथं दौर्योधनिः ? क्रियाशब्द त्वात् दुःखेन युध्यत इति। योधिष्ठिरिराजु निरित्यत्र तु बाह्वादित्वादिव ।६१। . न्या० स० ऋषि-वंशाख्या इति वंशनिमित्ता आख्या अभिधानं येषां ते । ३वाफल्क इति 'द्वारादेः' ७-४-६ इति न भवति व्युत्पत्तग्नाश्रयणात्, श्वानं फालयतीति तु वर्णनिर्णयार्थ वाक्यम्-एमण अभ्यो चेति — इतोऽनित्रः' ६-१-७२ ‘सेनान्तकारु' ६-१-१०२ इत्येताभ्याम् । कन्यात्रिवेण्याः कनीनत्रिवणं च ॥ ६. १. ६२ ॥
कन्याशब्दात् त्रिवेणीशब्दाच्चापत्येऽण प्रत्ययो भवति तत्संनियोगे कनीन त्रिवण इत्येतौ च यथासंख्यमादेशौ भवतः । कन्याया अपत्यं कानीनो व्यासः कानीन: कर्णः, त्रिवेण्या अपत्यं त्रैवणः । एयणोऽपवाद: ॥६२।। शुङ्गाभ्यां भारद्वाजे ॥ ६. १. ६३ ॥
शुङ्गशब्दात्पुंलिङ्गात् स्त्रीलिङ्गाच्च, भारद्वाजेऽपत्येऽण प्रत्ययो भवति । शुङ्गस्य शुङ्गाया वा अपत्यं शौङ्गो भारद्वाज, शौक्षिः शौङ्गेयश्चान्यः । ' नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति सिद्धे परत्वात् 'द्विस्वरादनद्याः' (६-१-७१) इत्येयण प्राप्नोति तद्भाधनार्थं द्विवचनेन स्त्रीलिङ्गः शुङ्गाशब्द उपादीयते ॥६३॥
न्या० स० शुङ्गा-शुगश्च शुङ्गा च 'पुरुषः स्त्रिया' ३-५-१२६ इति पुरुषः शिष्यते । विकर्णच्छगलादात्स्याये ॥ ६. १. ६४ ॥
विकर्णछगल इत्येताभ्यां यथासंख्यं वात्स्ये आत्रेये चापत्येण् प्रत्ययो भवति । वैकर्णो वात्स्यः, वैकणिरन्यः छागल आत्रेयः, छागलिरन्यः ।।६४॥