________________
[ २७
[पाद. १. सू. ५८-६०] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
जीवन्तपर्वतादा ॥ ६. १. ५८ ॥ ___ जीवन्तपर्वताभ्यां वृद्धेऽपत्ये आयनण प्रत्ययो वा भवति । जैवन्तायन:, जैवन्तिः, पार्वतायनः, पार्वतिः, वृद्ध इत्येव ? जैवन्तिः ।।५८।। द्रोणादा ॥ ६. १. ५९ ॥
योगविभागाद्वद्ध इति निवृत्तम्, द्रोणशब्दादपत्यमात्रे आयनण प्रत्ययो वा भवति । द्रौणायनः, द्रौणिः ।।५९।। शिवादेरण ॥ ६. १.६०॥
शिवादिभ्यो ङसन्तेभ्योऽपत्यमात्रेऽण् प्रत्ययो भवति । अत इमादेरपवादः । शिवस्यापत्यं शैवः, प्रौष्ठः, प्रौष्ठिकः । शिव, प्रौष्ठ, प्रौष्ठिक, वष्ट (चण्ड) जम्ब, जम्भ, ककुभ, कुथार, अनभिम्लान, ककुस्थ, कोहड, कहय, रोध, पिलधर, वतण्ड, तुण, कर्ण, क्षोरहद, जलहद, परिषिक, शिलिन्द, गोफिल, गोहिल, कपिलक, जटिलक, बधिरक, मजिरक, वृष्णिक, खजार, खजाल, रेख, लेख, आलेखन, वर्तन, ऋक्ष, वर्तनक्ष, विकट, पिटाक, तक्षाक, नभाक, ऊर्णनाभ, सुपिष्ट, पिष्ट कर्णक, पर्णक, मसुरकर्ण, मसूरकर्ण, खडूरक, गडेरक, यस्क, लह्य, द्रुह्य, अयस्थूण, भलन्द, भलन्दन, विरूप, विरूपाक्ष, भूरि, संधि, भूमि, मुनि, क्रुश्चा, कोकिला, इला, सपत्नी, जरत्कारु, उत्केया, काय्या, सुरोहिका, पीठीनासा, महित्री, आर्यश्वेता, ऋष्टिषेण, गङ्गा, पाण्ड, विपाश, तक्षन् इति शिवादिः । अत्राविरूपाक्षादिलोऽपवादः । भूर्यादीनामा आर्यश्वेताया एयणः, ऋष्टिषेणस्य सेनान्तस्य सेनान्तब्येत्रोः, बिदादिपाठाद्वृद्धेऽशेव भवति तदन्ताच्च यूनि 'अत इबू' (६-१-३१) तस्य 'जिदार्षादणियोः,(६-१-१४०) इति लुपि आष्टिषेणः पिता आष्टिषेणः पुत्रः । तथा ऋष्टिषेणस्यापत्यं वृद्धं बहवः विदाद्य तस्य — यसबः '-(६-१-१२६) इत्यादिना लुपि ऋष्टिषेणाः, पाण्डुपाठः शुभ्राद्येयणा गङ्गापाठस्तिकाद्यायनिजा च समावेशार्थः, तेन पाण्डोरूप्यं गङ्गायाश्च त्रैरूप्यं सिद्धम् । पाण्डवः, पाण्डवेयः, गाङ्गः, गाङ्गायनिः, गाङ्गेयः । विपाश्पाठः कुजादिलक्षणेन आयन्येन समावेशार्थः । वैपाशः, वैपाशायन्यः। तक्षन्पाठः कुर्वादिञ्येन समावेशार्थः । ताक्ष्णः, ताक्षण्यः ॥६॥
न्या० स० शिवा - प्रवृद्धावोष्ठौ यस्य पौष्ठः, 'वोऽष्ठौतौ' १-२-१७ इति वा लुपि । पौष्ठावस्य स्तः 'अतोऽनेक' ७-२-६ इतौके पौष्ठिकः ।
जनैच् 'तुम्बस्तुम्बादय' ३२० ( उणादि ) जम्बः । कुथमियर्ति कर्मणोऽणि कुथारः ।