________________
२६)
बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ५४-५७ ] यत्रित्रः ॥ ६. १. ५४॥
वृद्ध इति यनिमोविशेषणम्, वृद्धे विहिती यौ यजिलो तदन्तायून्यपत्ये आयनण् प्रत्ययो भवति । 'वृद्धाधुनि' (६-१-३०) इति वचनायूनीनि लभ्यते । गार्ग्यस्यापत्यं युवा गाायणः, वात्स्यायनः । दाक्षेरपत्यं युवा दाक्षायणः, प्लाक्षायणः, औदुम्बरायणः, तैलखलायनः । वृद्धविहितस्येमो ग्रहणादिह न भवति । उदुम्बराणां राजा औदुम्बरिस्तस्यापत्यमौदुम्बरः
औदुम्बरायणिर्वा । अवृद्धाद्दोर्नवा' (६-१-११०) इति पक्षे आयनिन्, गार्या अपत्यं गार्गेयः दाक्षेय इत्यत्र परत्वात् ‘ड्याप्त्यूङः' (६-१-७०) इत्येयण भवति ॥५४॥
न्या. स. यत्रि-औदुम्बरायण इति उदुम्बरस्य राज्ञोऽपत्यं वृद्धं 'साल्वांश' ६-१-११७ इतीज, तस्यापत्यं युवा, एवं द्वितोयेऽपि । हरितादेस्त्रः ॥ ६. १. ५५ ॥
विदाद्यन्तर्गणो हरितादिः । वृद्ध विहितो योऽन तदन्तेभ्यो हरितादिभ्यो यून्यपत्ये आयनण् प्रत्ययो भवति । हरितस्यापत्यं युवा हारितायनः, कैन्दासायनः । हरितादेरिति किम् ? वैदस्यापत्यं युवा बैदः । अत्रेनो लुप् । अञ इति किम् ? हरितस्यापत्यं वृद्धं हारितः ॥५५।। क्रोष्टशलको क् च ॥ ६. १. ५६ ॥
क्रोष्ट्ट शलङ्कु इत्येताभ्यां वृद्धेऽपत्ये आयनण् प्रत्ययो भवति तयोश्वान्तस्य लुग्भवति । क्रोष्टुरपत्यं वृद्धं क्रोष्ट्रायन:, शालङ्कायनः ॥५६।।
दर्भकृष्णानिशर्मरणशरदच्छुनकादाग्रायणब्राह्मणवार्षगण्यवासिष्ठभार्गववात्स्ये ॥ ६. १. ५७ ॥
दर्भादिभ्य आग्रायणादिष यथासंख्यं वृद्धष्वपत्येषु आयनण् प्रत्ययो भवति । दर्भादाग्रायणे, दर्भस्यापत्यमाग्रायणश्चत् दार्भायणः, दाभिरन्यः । कृष्णाद्ब्राह्मणे, कार्णायनो ब्राह्मणः, काष्णिरन्यः । अग्निशर्मणो वार्षगण्ये, आग्निशर्मायणो वार्षगण्यः, आग्निशमिरन्यः । रणाद्वासिष्ठे, राणायनो वासिष्ठः, राणिरन्यः । शरद्वतो भार्गवे, शारद्वतायनो भार्गवः, शारद्वतोऽन्यः । शुनकाद्वात्स्ये, शौनकायनो वात्स्यः, शौनकोऽन्यः । शरद्वच्छनको बिदादी ॥५७॥
न्या. स० दर्भकृष्णा-दर्भादिभ्यः पक्षे बाह्वादीञ् ।