________________
24 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
राजवजितराजार्थराक्षसादेः पराऽपि च ।
प्रादावुपक्रमोपज्ञे कन्थोशीनरनामनि ॥ ११ ॥ राजार्था ईश्वरादयस्तेभ्यो राजजितेभ्यो राक्षसादयः पिशाचादयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तस्तत्पुरुषः क्लीब, शालार्थ प्रारम्भः, इनसभं, ईश्वरसभं, नपसभं, पिशाचसभं, रक्षः सभं, तद्गृहं तत्संघो वेत्यर्थः । नृपतिसभामगमदिति बाहुलकात् । राजवजितेति किम् ? राजसभा, समूहार्थस्य भवत्येव पूर्वेण राजसभम् । राजार्थराक्षसादेरिति किम् ? नरसभा, प्रादौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते
मोपज्ञेत्येतदन्तस्तत्पुरुषः क्लीबः । श्रेयांसस्योपक्रमः श्रेयांसोपक्रम दानं. श्रेयांसेन श्रेयसे प्रथमं प्रवर्तितमित्यर्थः ।
आदिदेवस्योपज्ञा आदिदेवोपज्ञं धर्मव्यवस्था । आदिदेवेन प्रथमं ज्ञात्वा प्रवर्तितेत्यर्थः, उपक्रम्यते इत्युपक्रमः, उपज्ञायते इत्युपज्ञा, कर्मणि घनङावित्यनुयोगेन सामानाधिकरण्यम् । उशीनरा नाम देशस्तत्र चेत् कस्यचित् संज्ञायां वर्तमानः कन्थान्तस्तत्पुरुषः क्लीबः । सौशमीनां कन्था सौशमिकन्थं, प्राहरकन्थं, नाम उशीनरेषु ग्रामः। उशीनरेति किम् ? दक्षिणकन्था नाम ग्रामसंज्ञा किन्तु उशीनरेषु न ।। ११ ।।
सेनाशालासुराच्छाया-निशा वोर्णा शशात्परा ।
भाद्गणो गृहतः स्थूणा, संख्यादन्ता शतादिका ॥ १२ ॥ सेनाद्यन्तस्तत्पुरुषो वा क्लीबः, कपिसेनं, कपिसेना, हस्तिशालं, हस्तिशाला, यवसुरं, यवसुरा, छत्त्रच्छायं छत्त्रच्छाया, चौरनिशं चौरनिशा। अनञ् कर्मधारय इति किम् ? असेना, परमसेना। शशात्परो य ऊर्णाशब्दस्तदन्तस्तत्पुरुष. क्लोबः । शशोणं, अन्यत्र तु न। छागोर्णा, भात्परो यो गणस्तदन्तस्तत्पुरुषः क्लीबः, भगणम् अन्यत्र न । गोगरणः गृहात् परा या स्पूणा तदन्तस्तत्पुरुष क्लीबः, गृहस्थूणं गृहधारणं, अन्यत्र तु न । शालास्थूणा। अकारान्ता: शतप्रभतिसंख्या: क्लीबाः, अब्ज, खर्व, निखर्वं, महासरोजमित्यादि । शतसहस्रायुतप्रयुतानां पुनपुसकत्वं, लक्षस्य तु पुस्त्रीत्वम् ।। १२ ।। मौक्तिकं माक्षिकं सौप्तिकं क्लोतकं, नारणकं नाटकं खेटकं तोटकम् । आह्निकं रूपकं जापकं जालकं, वेण कं गैरक कारकं वास्तुकम् ॥ १३ ॥
अथ कान्ताः ४७ मौक्तिक मुक्ता, माक्षिकं यस्मात्ताम्रादि भवति स धातुविशेषः, सोप्तिकं रात्रीधाटी क्लातकं मधक, नाणकं रूपकादि, नाटक दशरूपकभेदः, खेटकं फलक, तोटकं दशरूपकभेदः वत्तं च, ग्राहिकं नित्यक्रिया भोजनं च, रूपकं काव्यालंकारविशेषः उपलक्षणत्वाद्यमकं दीपकं च, जापकं दर्वी सुगन्धिद्रव्यविशेषश्च, अर्थप्राधान्यात् कालपकमिति, दर्त्यां च पुलिङ गोऽप्ययमित्येके, जालक कुड्मलं, वेणुकं गजयोत्रं, गैरिक धातुविशेषः, कारकं कादि, गुणवृत्तिस्त्वाश्रयलिङ गः, वास्तुकं शाकविशेषः ।। १३ ।।